सुन्दरकाण्ड षष्टितमः
॥ अङ्गदजाम्बवत्संवादः ॥
तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत ॥ १ ॥
अयुक्तं तु विना देवीं दृष्टवद्भिश्च वानराः ।
समीपं गन्तुमस्माभी राघवस्य महात्मनः ॥ २ ॥
दृष्टा देवी न चानीता इति तत्र निवेदनम् ।
अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः ॥ ३ ॥
न हि नः प्लवने कश्चिन्नापि कश्चित्पराक्रमे ।
तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः ॥ ४ ॥
तेष्वेवं हतवीरेषु राक्षसेषु हनूमता ।
किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम् ॥ ५ ॥
तमेवं कृतसङ्कल्पं जाम्बवान्हरिसत्तमः ।
उवाच परमप्रीतो वाक्यमर्थवदर्थवित् ॥ ६ ॥
न तावदेषा मतिरक्षमा नो
यथा भवान्पश्यति राजपुत्र ।
यथा तु रामस्य मतिर्निविष्टा
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षष्टितमः सर्गः ॥ ६० ॥
valmiki ramayan sundarakand adhyay 60