सुन्दरकाण्ड अष्टपञ्चाशः
॥ हनूमद्वृत्तानुकथनम् ॥
ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः ।
हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम् ॥ १ ॥
तं ततः प्रतिसंहृष्टः प्रीतिमन्तं महाकपिम् ।
जाम्बवान्कार्यवृत्तान्तमपृच्छदनिलात्मजम् ॥ २ ॥
कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते ।
तस्यां वा स कथं वृत्तः क्रूरकर्मा दशाननः ॥ ३ ॥
तत्त्वतः सर्वमेतन्नः प्रब्रूहि त्वं महाकपे ।
श्रुतार्थाश्चिन्तयिष्याम ो भूयः कार्यविनिश्चयम् ॥ ४ ॥
यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान् ।
रक्षितव्यं च यत्तत्र तद्भवान्व्याकरोतु नः ॥ ५ ॥
स नियुक्तस्ततस्तेन सम्प्रहृष्टतनूरुहः ।
प्रणम्य शिरसा देव्यै सीतायै प्रत्यभाषत ॥ ६ ॥
प्रत्यक्षमेव भवतां महेन्द्राग्रात्खमाप्लुतः ।
उदधेर्दक्षिणं पारं काङ्क्षमाणः समाहितः ॥ ७ ॥
गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत् ।
काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम् ॥ ८ ॥
स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम् ।
उपसङ्गम्य तं दिव्यं काञ्चनं नगसत्तमम् ॥ ९ ॥
कृता मे मनसा बुद्धिर्भेत्तव्योऽयं मयेति च ।
प्रहतं च मया तस्य लाङ्गूलेन महागिरेः ॥ १० ॥
शिखरं सूर्यसङ्काशं व्यशीर्यत सहस्रधा ।
व्यवसायं च तं बुद्ध्वा स होवाच महागिरिः ॥ ११ ॥
पुत्रेति मधुरां वाणीं मनः प्रह्लादयन्निव ।
पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः ॥ १२ ॥
मैनाकमिति विख्यातं निवसन्तं महोदधौ ।
पक्षवन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः ॥ १३ ॥
छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः ।
श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः ॥ १४ ॥
चिच्छेद भगवान्पक्षान्वज्रेणैषां सहस्रशः ।
अहं तु मोक्षितस्तस्मात्तव पित्रा महात्मना ॥ १५ ॥
मारुतेन तदा वत्स प्रक्षिप्तोऽस्मि महार्णवे ।
रामस्य च मया साह्ये वर्तितव्यमरिन्दम ॥ १६ ॥
रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः ।
एतच्छ्रुत्वा वचस्तस्य मैनाकस्य महात्मनः ॥ १७ ॥
कार्यमावेद्य तु गिरेरुद्यतं च मनो मम ।
तेन चाहमनुज्ञातो मैनाकेन महात्मना ॥ १८ ॥
स चाप्यन्तर्हितः शैलो मानुषेण वपुष्मता ।
शरीरेण महाशैलः शैलेन च महोदधौ ॥ १९ ॥
उत्तमं जवमास्थाय शेषं पन्थानमास्थितः ।
ततोऽहं सुचिरं कालं वेगेनाभ्यगमं पथि ॥ २० ॥
ततः पश्याम्यहं देवीं सुरसां नागमातरम् ।
समुद्रमध्ये सा देवी वचनं मामभाषत ॥ २१ ॥
मम भक्षः प्रदिष्टस्त्वममरैर्हरिसत्तम ।
अतस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मे ॥ २२ ॥
एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः ।
विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयन् ॥ २३ ॥
रामो दाशरथिः श्रीमान्प्रविष्टो दण्डकावनम् ।
लक्ष्मणेन सह भ्रात्रा सीतया च परन्तपः ॥ २४ ॥
तस्य सीता हृता भार्या रावणेन दुरात्मना ।
तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् ॥ २५ ॥
कर्तुमर्हसि रामस्य साहाय्यं विषये सती ।
अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ॥ २६ ॥
आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते ।
एवमुक्ता मया सा तु सुरसा कामरूपिणी ॥ २७ ॥
अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम ।
एवमुक्तः सुरसया दशयोजनमायतः ॥ २८ ॥
ततोऽर्धगुणविस्तारो बभूवाहं क्षणेन तु ।
मत्प्रमा णाधिकं चैव व्यादितं तु मुखं तया ॥ २९ ॥
तद्दृष्ट्वा व्यादितं चास्यं ह्रस्वं ह्यकरवं वपुः ।
तस्मिन्मुहूर्ते च पुनर्बभूवाङ्गुष्ठमात्रकः ॥ ३० ॥
अभिपत्याशु तद्वक्त्रं निर्गतोऽहं ततः क्षणात् ।
अब्रवीत्सुरसा देवी स्वेन रूपेण मां पुनः ॥ ३१ ॥
अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ।
समानय च वैदेहीं राघवेण महात्मना ॥ ३२ ॥
सुखी भव महाबाहो प्रीतास्मि तव वानर ।
ततोऽहं साधु साध्वीति सर्वभूतैः प्रशंसितः ॥ ३३ ॥
ततोन्तरिक्षं विपुलं प्लुतोऽहं गरुडो यथा ।
छाया मे निगृहीता च न च पश्यामि किञ्चन ॥ ३४ ॥
सोऽहं विगतवेगस्तु दिशो दश विलोकयन् ।
न किञ्चित्तत्र पश्यामि येन मेऽपहृता गतिः ॥ ३५ ॥
ततो मे बुद्धिरुत्पन्ना किं नाम गगने मम ।
ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते ॥ ३६ ॥
अधोभागेन मे दृष्टिः शोचता पातिता मया ।
ततोऽद्राक्षमहं भीमां राक ्षसीं सलिलेशयाम् ॥ ३७ ॥
प्रहस्य च महानादमुक्तोऽहं भीमया तया ।
अवस्थितमसम्भ्रान्तमिदं वाक्यमशोभनम् ॥ ३८ ॥
क्वासि गन्ता महाकाय क्षुधिताया ममेप्सितः ।
भक्षः प्रीणय मे देहं चिरमाहारवर्जितम् ॥ ३९ ॥
बाढमित्येव तां वाणीं प्रत्यगृह्णामहं ततः ।
आस्यप्रमाणादधिकं तस्याः कायमपूरयम् ॥ ४० ॥
तस्याश्चास्यं महद्भीमं वर्धते मम भक्षणे ।
न च मां साधु बुबुधे मम वा निकृतं कृतम् ॥ ४१ ॥
ततोऽहं विपुलं रूपं सङ्क्षिप्य निमिषान्तरात् ।
तस्या हृदयमादाय प्रपतामि नभःस्थलम् ॥ ४२ ॥
सा विसृष्टभुजा भीमा पपात लवणाम्भसि ।
मया पर्वतसङ्काशा निकृत्तहृदया सती ॥ ४३ ॥
शृणोमि खगतानां च सिद्धानां चारणैः सह ।
राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हता ॥ ४४ ॥
तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन् ।
गत्वा चाहं महाध्वानं पश्यामि नगमण्डितम् ॥ ४५ ॥
दक्षिणं तीरमुदधेर्लङ्का यत्र च सा पुरी ।
अस्तं दिनकरे याते रक्षसां निलयं पुरम् ॥ ४६ ॥
प्रविष्टोऽहमविज्ञातो रक्षोभिर्भीमविक्रमैः ।
तत्र प्रविशतश्चापि कल्पान्तघनसन्निभा ॥ ४७ ॥
अट्टहासं विमुञ्चन्ती नारी काप्युत्थिता पुरः ।
जिघांसन्तीं ततस्तां तु ज्वलदग्निशिरोरुहाम् ॥ ४८ ॥
सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम् ।
प्रदोषकाले प्रविशं भीतयाहं तयोदितः ॥ ४९ ॥
अहं लङ्कापुरी वीर निर्जिता विक्रमेण ते ।
यस्मात्तस्माद्विजेतासि सर्वरक्षांस्यशेषतः ॥ ५० ॥
तत्राहं सर्वरात्रं तु विचिन्वन् जनकात्मजाम् ।
रावणान्तःपुरगतो न चापश्यं सुमध्यमाम् ॥ ५१ ॥
ततः सीतामपश्यंस्तु रावणस्य निवेशने ।
शोकसागरमासाद्य न पारमुपलक्षये ॥ ५२ ॥
शोचता च मया दृष्टं प्राकारेण समावृतम् ।
काञ्चनेन विकृष्टेन गृहोपवनमुत्तमम् ॥ ५३ ॥
सप्राकारमवप्लुत्य पश्यामि बहुपादप म् ।
अशोकवनिकामध्ये शिंशुपापादपो महान् ॥ ५४ ॥
तमारुह्य च पश्यामि काञ्चनं कदलीवनम् ।
अदूरे शिंशुपावृक्षात्पश्यामि वरवर्णिनीम् ॥ ५५ ॥
श्यामां कमलपत्राक्षीमुपवासकृशाननाम् ।
तदेकवासःसंवीतां रजोध्वस्तशिरोरुहाम् ॥ ५६ ॥
शोकसन्तापदीनाङ्गीं सीतां भर्तृहिते स्थिताम् ।
राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम् ॥ ५७ ॥
मांसशोणितभक्षाभिर्व्याघ्रीभिर्हरिणीमिव ।
सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्महुः ॥ ५८ ॥
एकवेणीधरा दीना भर्तृचिन्तापरायणा ।
भूमिशय्या विवर्णाङ्गी पद्मिनीव हिमागमे ॥ ५९ ॥
रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया ।
कथंचिन्मृगशाबाक्षी तूर्णमासादिता मया ॥ ६० ॥
तां दृष्ट्वा तादृशीं नारीं रामपत्नीं यशस्विनीम् ।
तत्रैव शिंशुपावृक्षे पश्यन्नहमवस्थितः ॥ ६१ ॥
ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम् ।
श ृणोम्यधिकगम्भीरं रावणस्य निवेशने ॥ ६२ ॥
ततोऽहं परमोद्विग्नः स्वं रूपं प्रतिसंहरन् ।
अहं तु शिंशुपावृक्षे पक्षीव गहने स्थितः ॥ ६३ ॥
ततो रावणदाराश्च रावणश्च महाबलः ।
तं देशं समनुप्राप्ता यत्र सीताभवत्स्थिता ॥ ६४ ॥
तद्दृष्ट्वाथ वरारोहा सीता रक्षोमहाबलम् ।
सङ्कुच्योरू स्तनौ पीनौ बाहुभ्यां परिरभ्य च ॥ ६५ ॥
वित्रस्तां परमोद्विग्नां वीक्षमाणां ततस्ततः ।
त्राणं किञ्चिदपश्यन्तीं वेपमानां तपस्विनीम् ॥ ६६ ॥
तामुवाच दशग्रीवः सीतां परमदुःखिताम् ।
अवाक्छिराः प्रपतितो बहुमन्यस्व मामिति ॥ ६७ ॥
यदि चेत्त्वं तु दर्पान्मां नाभिनन्दसि गर्विते ।
द्वौ मासावन्तरं सीते पास्यामि रुधिरं तव ॥ ६८ ॥
एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः ।
उवाच परमक्रुद्धा सीता वचनमुत्तमम् ॥ ६९ ॥
राक्षसाधम रामस्य भार्याममिततेजसः ।
इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य च ॥ ७० ॥
अवाच्यं वदतो जिह्वा कथं न पतिता तव ।
किञ्चिद्वीर्यं तवानार्य यो मां भर्तुरसन्निधौ ॥ ७१ ॥
अपहृत्यागतः पाप तेनादृष्टो महात्मना ।
न त्वं रामस्य सदृशो दास्येऽप्यस्य न युज्यसे ॥ ७२ ॥
यज्ञीयः सत्यवादी च रणश्लाघी च राघवः ।
जानक्या परुषं वाक्यमेवमुक्तो दशाननः ॥ ७३ ॥
जज्वाल सहसा कोपाच्चितास्थ इव पावकः ।
विवर्त्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम् ॥ ७४ ॥
मैथिलीं हन्तुमारब्धः स्त्रीभिर्हाहाकृतं तदा ।
स्त्रीणां मध्यात्समुत्पत्य तस्य भार्या दुरात्मनः ॥ ७५ ॥
वरा मन्दोदरीनाम तया स प्रतिषेधितः ।
उक्तश्च मधुरां वाणीं तया स मदनार्दितः ॥ ७६ ॥
सीतया तव किं कार्यं महेन्द्रसमविक्रम ।
[* मया सह रमस्वाद्य मद्विशिष्टा न जानकी । *]
देवगन्धर्वकन्याभिर्यक्षकन्याभिरेव च ॥ ७७ ॥
सार्धं प्रभो रमस्वेह सीतया किं करिष्यसि ।