श्री गायत्री षोडशोपचार पूजा
पुनः सङ्कल्पम् –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ श्री गायत्री देवतामुद्दिश्य श्री गायत्री देवता प्रीत्यर्थं सम्भवद्भिः द्रव्यैः सम्भवद्भिः उपचारैश्च सम्भविता नियमेन सम्भवित ा प्रकारेण श्रीसूक्त विधानेन यावच्छक्ति ध्यानावाहनादि षोडशोपचार पूजां करिष्ये ॥
ध्यानम् –
ब्रह्माणी चतुराननाक्षवलयं कुम्भं करैः स्रुक्स्रवौ
बिभ्राणा त्वरुणेन्दुकान्तिवदना ऋग्रूपिणी बालिका ।
हंसारोहणकेलिखण्खणमणेर्बिम्बार्चिता भूषिता
गायत्री परिभाविता भवतु नः सम्पत्समृद्ध्यै सदा ॥
रुद्राणी नवयौवना त्रिनयना वैयाघ्रचर्माम्बरा
खट्वाङ्गत्रिशिखाक्षसूत्रवलयाऽभीतिः श्रियै चास्तु नः ।
विद्युद्दामजटाकलापविलसद्बालेन्दुमौलिर्मुदा
सावित्री वृषवाहना सिततनुर्ध्येया यजूरूपिणी ॥
ध्येया सा च सरस्वती भगवती पीताम्बरालङ्कृता
श्यामा श्यामतनुर्जरापरिलसद्गात्राञ्चिता वैष्णवी ।
तार्क्ष्यस्था मणिनूपुराङ्गदलसद्ग्रैवेयभूषोज्ज्वला
हस्तालङ्कृतशङ्खचक्रसुगदापद्मा श्रियै चास्तु नः ॥
मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणैः
युक्तामिन्दुनिबद्धरत्नमकुटां तत्त्वार्थवर्णात्मिकाम् ।
गायत्रीं वरदाभयाङ्कुशकशाः शुभ्रं कपालं गदां
शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥
ओं श्री गायत्री देव्यै नमः ध्यायामि ।
प्राणप्रतिष्ठ –
ओं असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒:
पुन॑: प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् ।
ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒
मनु॑मते मृ॒डया᳚ नः स्व॒स्ति ॥
अ॒मृतं॒ वै प्रा॒णा अ॒मृत॒माप॑:
प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥
आवाहिता भव स्थापिता भव ।
सुप्रसन्नो भव वरदा भव ।
स्थिरासनं कुरु प्रसीद प्रसीद ।
आवाहनम् –
ओं हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् ।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥
कनकमयवितर्दिशोभमानं
दिशि दिशि पूर्णसुवर्णकुम्भयुक्तम् ।
मणिमयमण्टपमध्यमेहि मात-
-र्मयि कृपयाशु समर्चनं ग्रहीतुम् ॥
ओं श्री गायत्री देव्यै नमः आवाहयामि ।
आसनम् –
तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।
यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥
कनकमयवितर्दिस्थापिते तूलिकाढ्ये
विविधकुसुमकीर्णे कोटिबालार्कवर्णे ।
भगवति रमणीये रत्नसिंहासनेऽस्मि-
-न्नुपविश पदयुग्मं हेमपीठे निधाय ॥
ओं श्री गायत्री देव्यै नमः नवरत्नखचित सुवर्ण सिंहासनं समर्पयामि ।
पाद्यम् –
अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॑दप्र॒बोधि॑नीम् ।
श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा॑दे॒वीर्जु॑षताम् ॥
दूर्वया सरसिजान्वितविष्णु-
-क्रान्तया च सहितं कुसुमाढ्यम् ।
पद्मयुग्मसदृशे पदयुग्मे
पाद्यमेतदुररीकुरु मातः ॥
ओं श्री गायत्री देव्यै नमः पादयोः पाद्यं समर्पयामि ।
अर्घ्यम् –
कां॒ सो᳚स्मि॒तां हिर॑ण्यप्रा॒कारा॑-
-मा॒र्द्रां ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम् ।
प॒द्मे॒ स्थि॒तां प॒द्मव॑र्णां॒
तामि॒होप॑ह्वये॒ श्रियम् ॥
गन्धपुष्पयवसर्षपदूर्वा-
-सम्युतं तिलकुशाक्षतमिश्रम् ।
हेमपात्रनिहितं सह रत्नै-
-रर्घ्यमेतदुररीकुरु मातः ॥
ओं श्री गायत्री देव्यै नमः हस्तयोरर्घ्यं समर्पयामि ।
आचमनीयम् –
च॒न्द्रां प्र॑भा॒सां य॒शसा॒ ज्वल॑न्तीं॒
श्रियं॑ लो॒के दे॒वजु॑ष्टामुदा॒राम् ।
तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्ये-
-ऽल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां वृ॑णे ॥
जलजद्युतिना करेण जाती-
-फलतक्कोललवङ्गगन्धयुक्तैः ।
अमृतैरमृतैरिवातिशीतै-
-र्भगवत्याचमनं विधीयताम् ॥
ओं श्री गायत्री देव्यै नमः मुखे आचमनीयं समर्पयामि ।
मधुपर्कम् –
निहितं कनकस्य सम्पुटे
पिहितं रत्नपिधानकेन यत् ।
तदिदं जगदम्ब तेऽर्पितं
मधुपर्कं जननि प्रगृह्यताम् ॥