श्री महागणपति षोडशोपचार पूजा
पुनः सङ्कल्पम् –
पूर्वोक्त एवं गुणविशेषण विशिष्टायां शुभतिथौ श्रीमहगणपतिमुद्दिश्य श्रीमहागणपतिप्रीत्यर्थं श्रीमन्मुद्गलपुराणे श्रीगृत्समद प्रोक्त श्लोकविधानेन यावच्छक्ति ध्यानावहनादि षोडशोपचार पूजां करिष्ये ॥
प्राणप्रतिष्ठ –
ओं असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒:
पुन॑: प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् ।
ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒
मनु॑मते मृ॒डया᳚ नः स्व॒स्ति ॥
अ॒मृतं॒ वै प्रा॒णा अ॒मृत॒माप॑:
प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥
आवाहितो भव स्थापितो भव ।
सुप्रसन्नो भव वरदो भव ।
अस्मिन् बिम्बे सपरिवार समेत श्रीमहागणपति स्वामिनं आवाहयामि स्थापयामि पूजयामि ॥
ध्यानम् –
ओं ग॒णानां᳚ त्वा ग॒णप॑तिग्ं हवामहे
क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒
आ न॑: शृ॒ण्वन्नू॒तिभि॑: सीद॒ साद॑नम् ॥
चतुर्बाहुं त्रिनेत्रं च गजास्यं रक्तवर्णकम् ।
पाशाङ्कुशादिसम्युक्तं मायायुक्तं प्रचिन्तयेत् ॥
ओं श्रीमहागणपतये नमः ध्यायामि ।
आवाहनम् –
आगच्छ ब्रह्मणां नाथ सुराऽसुरवरार ्चित ।
सिद्धिबुद्ध्यादिसम्युक्त भक्तिग्रहणलालस ॥
ओं श्रीमहागणपतये नमः आवहयामि ।
आसनम् –
रत्नसिंहासनं स्वामिन् गृहाण गणनायक ।
तत्रोपविश्य विघ्नेश रक्ष भक्तान्विशेषतः ॥
ओं श्रीमहागणपतये नमः आसनं समर्पयामि ।
पाद्यम् –
सुवासिताभिरद्भिश्च पादप्रक्षालनं प्रभो ।
शीतोष्णाम्भः करोमि ते गृहाण पाद्यमुत्तमम् ॥
ओं श्रीमहागणपतये नमः पाद्यं समर्पयामि ।
अर्घ्यम् –
रत्नप्रवालमुक्ताद्यैरनर्घ्यैः संस्कृतं प्रभो ।
अर्घ्यं गृहाण हेरम्ब द्विरदानन तोषकम् ॥
ओं श्रीमहागणपतये नमः अर्घ्यं समर्पयामि ।
आचमनीयम् –
सर्वतीर्थाहृतं तोयं सुवासितं सुवस्तुभिः ।
आचमनं च तेनैव कुरुष्व गणनायक ॥
ओं श्रीमहागणपतये नमः आचमनीयं समर्पयामि ।
मधुपर्कम् –
दधिमधुघृतैर्युक्तं मधुपर्कं गजानन ।
गृहाण भावसम्युक्तं मया दत्तं नमोऽस्तु ते ॥