बालकाण्ड अष्टादशः
॥ श्रीरामाद्यवतारः ॥
निर्वृत्ते तु क्रतौ तस्मिन्हयमेधे महात्मनः ।
प्रतिगृह्य सुरा भागान् प्रतिजग्मुर्यथागतम् ॥ १ ॥
समाप्तदीक्षानियमः पत्नीगणसमन्वितः ।
प्रविवेश पुरीं राजा सभृत्यबलवाहनः ॥ २ ॥
यथार्हं पूजितास्तेन राज्ञा वै पृथिवीश्वराः ।
मुदिताः प्रययुर्देशान्प्रणम्य मुनिपुङ्गवम् ॥ ३ ॥
श्रीमतां गच्छतां तेषां स्वपुराणि पुरात्ततः ।
बलानि राज्ञां शुभ्राणि प्रहृष्टानि चकाशिरे ॥ ४ ॥
गतेषु पृथिवीशेषु राजा दशरथस्तदा ।
प्रविवेश पुरीं श्रीमान्पुरस्कृत्य द्विजोत्तमान् ॥ ५ ॥
शान्तया प्रययौ सार्धमृश्यशृङ्गः सुपूजितः ।
अन्व ीयमानो राज्ञाऽथ सानुयात्रेण धीमता ॥ ६ ॥
एवं विसृज्य तान्सर्वान्राजा सम्पूर्णमानसः ।
उवास सुखितस्तत्र पुत्रोत्पत्तिं विचिन्तयन् ॥ ७ ॥
ततो यज्ञे समाप्ते तु ऋतूनां षट्समत्ययुः ।
ततश्च द्वादशे मासे चैत्रे नावमिके तिथौ ॥ ८ ॥
नक्षत्रेऽदितिदैवत्ये स्वोच्चसंस्थेषु पञ्चसु ।
ग्रहेषु कर्कटे लग्ने वाक्पताविन्दुना सह ॥ ९ ॥
प्रोद्यमाने जगन्नाथं सर्वलोकनमस्कृतम् ।
कौसल्याऽजनयद्रामं दिव्यलक्षणसम्युतम् ॥ १० ॥
विष्णोरर्धं महाभागं पुत्रमैक्ष्वाकुवर्धनम् ।
[* लोहिताक्षं महाबाहुं रक्तोष्ठं दुन्दुभिस्वनम् । *]
कौसल्या शुशुभे तेन पुत्रेणामित तेजसा ॥ ११ ॥
यथा वरेण देवानामदितिर्वज्रपाणिना ।
भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः ॥ १२ ॥
साक्षाद्विष्णोश्चतुर्थभागः सर्वैः समुदितो गुणैः ।
अथ लक्ष्मणशत्रुघ्नौ सुमित्राजनयत्सुतौ ॥ १३ ॥