बालकाण्ड एकादशः
॥ ऋश्यशृङ्गस्यायोध्याप्रवेशः ॥
भूय एव हि राजेन्द्र शृणु मे वचनं हितम् ।
यथा स देवप्रवरः कथयामेवमब्रवीत् ॥ १ ॥
इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः ।
राजा दशरथो राजा श्रीमान्सत्यप्रतिश्रवः ॥ २ ॥
अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति ।
[* कन्या चास्य महाभागा शान्ता नाम भविष्यति । *]
पुत्रस्तु सोऽङ्गराजस्य रोमपाद इति श्रुतः ॥ ३ ॥
तं स राजा दशरथो गमिष्यति महायशाः ।
अनपत्योऽस्मि धर्मात्मन् शान्ता भर्ता मम क्रतुम् ॥ ४ ॥
आहरेत त्वयाज्ञप्तः सन्तानार्थं कुलस्य च ।
श्रुत्वा राज्ञोऽथ तद्वाक्यं मनसापि विमृश्य च ॥ ५ ॥ [विचिन्त्य]
प्रदास्यते पुत्रवन्तं शान्ता भर्तारमात्मवान् ।
प्रतिगृह्यं च तं विप्रं स राजा विगत ज्वरः ॥ ६ ॥
आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना ।
तं च राजा दशरथो यष्टुकामः कृताञ्जलिः ॥ ७ ॥
ऋश्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित् ।
यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वरः ॥ ८ ॥
लभते च स तं कामं द्विजमुख्याद्विशां पतिः ।
पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमाः ॥ ९ ॥
वंशप्रतिष्ठानकराः सर्वलोकेषु विश्रुताः ।
एवं स देवप्रवरः पूर्वं कथितवान्कथाम् ॥ १० ॥
सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः ।
स त्वं पुरुषशार्दूल तमानय सुसत्कृतम् ॥ ११ ॥
स्वयमेव महाराज गत्वा सबलवाहनः ।
[* सुमन्त्रस्य वचः श्रुत्वा हृष्टो दशरथोऽभवत् । *]
अनुमान्य वसिष्ठं च सूतवाक्यं निशाम्य च ॥ १२ ॥
वसिष्ठेनाभ्यनुज्ञातो राजा सम्पूर्णमानसः ।
सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः ॥ १३ ॥
वनानि सरितश्चैव व्यतिक्रम्य शनैः शनैः ।
अभिचक्राम तं देशं यत्र वै मुनिपुङ्गवः ॥ १४ ॥
आसाद्य तं द्विजश्रेष्ठं रोमपादसमीपगम् ।
ऋषिपुत्रं ददर्शादौ दीप्यमानमिवानलम् ॥ १५ ॥
ततो राजा यथान्यायं पूजां चक्रे विशेषतः ।
सखित्वात्तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना ॥ १६ ॥
रोमपादेन चाख्यातमृषिपुत्राय धीमते ।
सख्यं सम्बन्धकं चैव तदा तं प्रत्यपूजयत् ॥ १७ ॥
एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः ।
सप्ताष्ट दिवसान्राजा राजानमिदमब्रवीत् ॥ १८ ॥
शान्ता तव सुता राजन्सह भर्त्रा विशांपते ।
मदीयं नगरं यातु कार्यं हि महदुद्यतम् ॥ १९ ॥
तथेति राजा संश्रुत्य गमनं तस्य धीमतः ।
उवाच वचनं विप्रं गच्छ त्वं सह भार्यया ॥ २० ॥
ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा ।
स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया ॥ २१ ॥