अरण्यकाण्ड एकत्रिंशः
॥ रावणखरवृत्तोपलम्भः ॥
त्वरमणस्ततो गत्वा जनस्थानादकम्पनः ।
प्रविश्य लङ्कां वेगेन रावणं वाक्यमब्रवीत् ॥ १ ॥
जनस्थानस्थिता राजन् राक्षसा बहवो हताः ।
खरश्च निहतः सङ्ख्ये कथञ्चिदहमागतः ॥ २ ॥
एवमुक्तो दशग्रीवः क्रुद्धः संरक्तलोचनः ।
अकम्पनमुवाचेदं निर्दहन्निव चक्षुषा ॥ ३ ॥
केन रम्यां जनस्थानं हतं मम परासुना ।
को हि सर्वेषु लोकेषु गतिं चाधिगमिष्यति ॥ ४ ॥
न हि मे विप्रियं कृत्वा शक्यं मघवता सुखम् ।
प्राप्तुं वैश्रवणेनापि न यमेन न विष्णुना ॥ ५ ॥
कालस्य चाप्यहं कालो दहेयमपि पावकम् ।
मृत्युं मरणधर्मेण सम्योजयितुमुत्सहे ॥ ६ ॥
दहेयमपि सङ्क्रुद्धस्तेजसाऽऽदित्यपावकौ ।
वातस्य तरसा वेगं निहन्तुमहमुत्सहे ॥ ७ ॥
तथा क्रुद्धं दशग्रीवं कृताञ्जलिरकम्पनः ।
भयात् सन्दिग्धया वाचा रावणं याचतेऽभयम् ॥ ८ ॥
दशग्रीवोऽभयं तस्मै प्रददौ रक्षसां वरः ।
स विश्रब्धोऽब्रवीद्वाक्यमसन्दिग्धमकम्पनः ॥ ९ ॥
पुत्रो दशरथस्यास्ति सिंहसंहननो युवा ।
रामो नाम वृषस्कन्धो वृत्तायतमहाभुजः ॥ १० ॥
वीरः पृथुयशाः श्रीमानतुल्यबलविक्रमः ।
हतं तेन जनस्थानं खरश्च सहदूषणः ॥ ११ ॥
अकम्पनवचः श्रुत्वा रावणो राक्षसाधिपः ।
नागेन्द्र इव निःश्वस्य वचनं चेदमब्रवीत् ॥ १२ ॥
स सुरेन्द्रेण सम्युक्तो रामः सर्वामरैः सह ।
उपयातो जनस्थानं ब्रूहि कच्चिदकम्पन ॥ १३ ॥
रावणस्य पुनर्वाक्यं निशम्य तदकम्पनः ।
आचचक्षे बलं तस्य विक्रमं च महात्मनः ॥ १४ ॥
रामो नाम महातेजाः श्रेष्ठः सर्वधनुष्मताम् ।
दिव्यास्त्रगुणसम्पन्नः पुरन्धरसमो युधि ॥ १५ ॥
तस्यानुरूपो बलवान् रक्ताक्षो दुन्दुभिस्वनः ।
कनीयान् लक्ष्मणो नाम भ्राता शशिनिभाननः ॥ १६ ॥
स तेन सह सम्युक्तः पावकेनानिलो यथा ।
श्रीमान्राजवरस्तेन जनस्थानं निपातितम् ॥ १७ ॥
नैव देवा महत्मानो नात्र कार्या विचारणा ।
शरा रामेण तूत्सृष्टा रुक्मपुङ्खाः पतत्रिणः ॥ १८ ॥
सर्पाः पञ्चानना भूत्वा भक्षयन्ति स्म राक्षसान् ।
येन येन च गच्छन्ति राक्षसा भयकर्शिताः ॥ १९ ॥
तेन तेन स्म पश्यन्ति राममेवाग्रतः स्थितम् ।
इत्थं विनाशितं तेन जनस्थानं तवानघ ॥ २० ॥
अकम्पनवचः श्रुत्वा रावणो वाक्यमब्रवीत् ।
जनस्थानं गमिष्यामि हन्तुं रामं सलक्ष्मणम् ॥ २१ ॥
अथैवमुक्ते वचने प्रोवाचेदमकम्पनः ।
श्रुणु राजन्यथावृत्तं रामस्य बलपौरुषम् ॥ २२ ॥
असाध्यः कुपितो रामो विक्रमेण महायशाः ।