युद्धकाण्ड त्रिसप्ततितमः
॥ इन्द्रजिन्मायायुद्धम् ॥
ततो हतान्राक्षसपुङ्गवांस्तान्
देवान्तकादित्रिशिरोतिकायान् ।
रक्षोगणास्तत्र हतावशिष्टा-
-स्ते रावणाय त्वरितं शशंसुः ॥ १ ॥
ततो हतांस् तान्सहसा निशम्य
राजा मुमोहाश्रुपरिप्लुताक्षः ।
पुत्रक्षयं भ्रातृवधं च घोरं
विचिन्त्य राजा विपुलं प्रदध्यौ ॥ २ ॥
ततस्तु राजानमुदीक्ष्य दीनं
शोकार्णवे सम्परिपुप्लुवानम् ।
रथर्षभो राक्षसराजसूनु-
-स्तमिन्द्रजिद्वाक्यमिदं बभाषे ॥ ३ ॥
न तात मोहं प्रतिगन्तुमर्हसि
यत्रेन्द्रजिज्जीवति राक्षसेन्द्र ।
नेन्द्रारिबाणाभिहतो हि कश्चित्
प्राणान्समर्थः समरेऽभिपातुम् ॥ ४ ॥
पश्याद्य रामं सह लक्ष्मणेन
मद्बाणनिर्भिन्नविकीर्णदेहम् ।
गतायुषं भूमितले शयानं
शितैः शरैराचितसर्वगात्रम् ॥ ५ ॥
इमां प्रतिज्ञां शृणु शक्रशत्रोः
सुनिश्चितां पौरुषदैवयुक्ताम् ।
अद्यैव रामं सह लक्ष्मणेन
सन्तर्पयिष्यामि शरैरमोघैः ॥ ६ ॥
अद्येन्द्रवैवस्वतविष्णुमित्र
साध्याश्विवैश्वानरचन्द्रसूर्याः ।
द्रक्ष्यन्तु मे विक्रममप्रमेयं