शांती सूक्त
ॐ ब्रह्म॑जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता᳚त् विसी॑म॒तस्सु॒रुचो॑ वे॒न आ॑वः ।
सबु॒ध्निया॑ उप॒मा॑स्य॒विष्ठः स॒तश्च॒ योनि॒मस॑त्श्च॒विवः॑ ॥
आपो॒ वा इ॒दꣳ सर्वं॒ विश्वा॑ भू॒तान्यापः॑ प्रा॒णा वा आपः॑ प॒शव॒ आपोऽन्न॒मापोऽमृ॑त॒मापः॑ स॒म्राडापो॑ वि॒राडापः॑ स्व॒राडाप ॒श्छन्दा॒ꣳ॒स्यापो॒ ज्योती॒ꣳ॒ष्यापो॒ यजू॒ꣳ॒ष्याप॑स्स॒त्यमाप॒स्सर्वा॑ दे॒वता॒ आपो॒ भूर्भुव॒स्सुव॒राप॒ ॐ ॥
अ॒पः प्रण॑यति ।
श्र॒द्धावा आपः॑ ।
श्र॒द्धां ए॒वारभ्य॑ प्र॒णीय॑ प्रच॑रति अ॒पः प्रण॑यति ।
य॒ज्ञो वै आपः॑ ।
य॒ज्ञं ए॒वारभ्य॑ प्र॒णीय॑ प्रच॑रति अ॒पः प्रण॑यति ।
व॒ज्रो वै आपः॑ ।
वज्र॑मे॒व भ्रातृ॑व्येभ्यः प्रहृत्य॑ प्र॒णीय॑ प्रच॑रति ।
अ॒पः प्रण॑यति ।
आपो॒ वै रक्षो॒घ्नीः ।
रक्ष॑सां अप॑हत्यै ।
अ॒पः प्रण॑यति ।
आपो॒ वै दे॒वानां᳚ प्रि॒यंधाम॑ ।
दे॒वाना॑मे॒व प्रि॒यंधाम॑ प्र॒णीय॒ प्रच॑रति ।
अ॒पः प्रण॑यति ।
आपो॒ वै सर्वा॑ दे॒वताः᳚ ।
दे॒वता॑ ए॒वा॒रभ्य॑ प्र॒णीय॒ प्रच॑रति ।
आपो॒वैशा॒न्ताः ।
शा॒न्ताभि॑रे॒वास्य॑ शुचꣳ॑शमयति ॥
दे॒वो व॑स्सवि॒ता उत्पु॑नातु ।
अच्छि॑द्रेण प॒वित्रे॑ण ।
वसोः᳚ सूर्य॑स्य र॒श्मिभिः॑ ।
स हि रत्ना॑नि दा॒शुषै᳚ सु॒वाति सवि॒ता भगः॑ ।
तं भा॒गं चि॒त्रमी॑महे ॥
ॐ अ॒ग्निमी᳚ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विजम्᳚ ।
होता᳚रं रत्न॒धात॑मम् ॥
इ॒षेत्वो॒र्जे त्वा॑ वा॒यव॑स्थोपा॒यवस्थ दे॒वो वः॑ सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑णे ॥
अग्न॒ आया॑हि वी॒तये॑ गृणा॒नो ह॒व्यदा॑तये ।
निहोता॑ सत्सि ब॒र्हिषि॑ ॥
शन्नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये᳚ ।
शंयोर॒भिस्र॑वन्तु नः ॥
कृ॒णु॒ष्व पाजः॒ प्रसि॑ति॒न्न पृ॒थ्वीं या॒हि राजे॒वाम॑वा॒ꣳ॒ इभे॑न ।
तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता॑ऽसि॒ विध्य॑ र॒क्षस॒स्तपि॑ष्ठैः ॥
तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्यनु॑ स्पृश धृष॒ता शोशु॑चानः ।
तपूꣳ॑ष्यग्ने जु॒ह्वा॑ पत॒ङ्गानस॑न्दितो॒ वि सृ॑ज॒ विष्व॑गु॒ल्काः ॥
प्रति॒ स्पशो॒ वि सृ॑ज॒ तूर्णि॑तमो॒ भवा॑ पा॒युर्वि॒शो अ॒स्या अद॑ब्धः ।
यो नो॑ दू॒रे अ॒घशꣳ॑सो यो अन्त्यग्ने॒ माकि॑ष्टे॒ व्यथि॒राद॑धर्षीत् ॥
उद॑ग्ने तिष्ठ॒ प्रत्याऽऽत॑नुष्व॒ न्य॑मित्राꣳ॑ ओषतात् तिग्महेते ।
यो नो॒ अरा॑तिꣳ समिधान च॒क्रे नी॒चा तं ध॑क्ष्यत॒सं न शुष्कम्᳚ ॥
ऊ॒र्ध्वो भ॑व प्रति॑ विध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या᳚न्यग्ने ।
अव॑ स्थि॒रा त॑नुहि यातु॒जूनां᳚ जा॒मिमजा॑मिं॒ प्र मृ॑णीहि॒ शत्रून्॑ ॥
स ते॑ जानाति सुम॒तिं य॑विष्ठ॒ य ईव॑ते॒ ब्रह्म॑णे गा॒तुमैर॑त् ।
विश्वा᳚न्यस्मै सु॒दिना॑नि रा॒यो द्यु॒म्नान्य॒र्यो वि दुरो॑ अ॒भि द्यौ᳚त् ॥
सेद॑ग्ने अस्तु सु॒भग॑स्सु॒दानु॒र्यस्त्वा॒ नित्ये॑न ह॒विषा॒ य उ॒क्थैः ।
पिप्री॑षति॒ स्व आयु॑षि दुरो॒णे विश्वेद॑स्मै सु॒दिना॒ सास॑दि॒ष्टिः ॥
अर्चा॑मि ते सुम॒तिं घोष्य॒र्वाक् सन्ते॑ वा॒वाता॑ जरतामि॒यं गीः ।
स्वश्वा᳚स्त्वा सु॒रथा॑ मर्जये मा॒स्मे क्ष॒त् राणि॑ धारये॒रनु॒ द्यून् ॥
इ॒ह त्वा॒ भूर्या च॑रे॒ दुप॒त्मन्दोषा॑वस्तर्दी दि॒वाꣳस॒मनु॒ द्यून् ।
क्रीड॑न्तस्त्वा सु॒मन॑सस्सपेमा॒भि द्यु॒म्ना त॑स्थि॒वाꣳसो॒ जना॑नाम् ॥
यस्त्वा॒ स्वश्व॑स्सु हिर॒ण्यो अ॑ग्न उप॒याति॒ वसु॑मता॒ रथे॑न ।
तस्य॑ त्रा॒ता भ॑वसि॒ तस्य॒ सखा॒ यस्त॑ आति॒थ्यमा॑नु॒षग् जुजो॑षत् ॥
म॒हो रु॑जामि ब॒न्धुता॒ वचो॑भि॒स्तन्मा॑ पि॒तुर्गोत॑मा॒दन्वि॑याय ।
त्वन्नो॑ अ॒स्य वच॑सश्चिकिद्धि॒ होत॑र्यविष्ठ सुक्रतो॒ दमू॑नाः ॥
अस्व॑प्नजस्त॒रण॑यस्सु॒शेवा॒ अत॑न्द्रासोऽवृ॒का अश्र॑मिष्ठाः ।
ते पा॒यव॑स्स॒ध्रिय॑ञ्चो नि॒षद्याऽग्ने॒ तव॑ नः पान्त्वमूर ॥
ये पा॒यवो॑ मामते॒यन्ते॑ अग्ने॒ पश्य॑न्तो अ॒न्धन्दु॑रि॒तादर॑क्षन् ।
र॒रक्ष॒ तान्त्सु॒कृतो॑ वि॒श्ववे॑दा॒ दिप्स॑न्त॒ इद्रि॒पवो॒ नाह॑ दे॒भुः ॥
त्वया॑ व॒यꣳ स॑ध॒न्य॑स्त्वोता॒ स्तव॒ प्रणी᳚त्याश्याम॒ वाजान्॑ ।
उ॒भा शꣳसा॑ सूदय सत्यतातेऽनुष्ठु॒या कृ॑णुह्यह्रयाण ॥
अ॒या ते॑ अग्ने स॒मिधा॑ विधेम॒ प्रति॒ स्तोमꣳ॑ श॒स्यमा॑नं गृभाय ।
दहा॒शसो॑ र॒क्षसः॑ पा॒ह्य॑स्मान्द्रु॒हो नि॒दो मि॑त्रमहो अव॒द्यात् ॥
र॒क्षो॒हणं॑ वा॒जिन॒माऽऽजि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒मुप॑यामि॒ शर्म॑ ।
शिशा॑नो अ॒ग्निः क्रतु॑भि॒स्समि॑द्ध॒स्स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्तम्᳚ ॥
विज्योति॑षा बृह॒ता भा᳚त्य॒ग्निरा॒विर्विश्वा॑नि कृणुते महि॒त्वा ।
प्रादे॑वीर्मा॒यास्स॑हते दु॒रेवाः॒ शिशी॑ते॒ शृङ्गे॒ रक्ष॑से वि॒निक्षे᳚ ॥
उ॒त स्वा॒नासो॑ दि॒विष॑न्त्व॒ग्नेस्ति॒ग्मायु॑धा॒ रक्ष॑से॒ हन्त॒ वा उ॑ ।
[मदे॑ चिदस्य॒ प्ररु॑जन्ति॒ भामा॒ न व॑रन्ते परि॒बाधो॒ अदे॑वीः ॥
] इन्द्रं॑ वो वि॒श्वत॒स्परि॒ हवा॑महे॒ जने᳚भ्यः ।
अ॒स्माक॑मस्तु॒ केव॑लः ।
इन्द्र॒न् नरो॑ ने॒मधि॑ता हवन्ते॒ यत्पार्या॑ यु॒नज॑ते॒ धिय॒स्ताः ।
शूरो॒ नृषा॑ता॒ शव॑सश्वका॒न आ गोम॑ति व्र॒जे भ॑जा॒ त्वन्नः॑ ।
इ॒न्द्रि॒याणि॑ शतक्रतो॒ या ते॒ जने॑षु प॒ञ्चसु॑ ।
इन्द्र॒ तानि॑ त आ वृ॑णे ।
अनु॑ ते दायि म॒ह इ॑न्द्रि॒याय॑ स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्यै᳚ ।
अनु॑ क्ष॒त्रमनु॒ सहो॑ यज॒त्रेन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये᳚ ।
आ यस्मिन्᳚त्स॒प्त वा॑स॒वास्तिष्ठ॑न्ति स्वा॒रुहो॑ यथा ।
ऋषि॑र्ह दीर्घ॒श्रुत्त॑म॒ इन्द्र॑स्य घ॒र्मो अति॑थिः ।
आ॒मासु॑ प॒क्वमैर॑य॒ आसूर्यꣳ॑ रोहयो दि॒वि ।
घ॒र्मन्न साम॑न्तपता सुवृ॒क्तिभि॒र्जुष्टं गिर्व॑णसे॒ गिरः॑ ।
इन्द्र॒मिद्गा॒थिनो॑ बृ॒हदिन्द्र॑म॒र्केभि॑र॒र्किणः॑ ।
इन्द्रं॒ वाणी॑रनूषत ।
गाय॑न्ति त्वा गाय॒त्रिणोऽर्च॑न्त्य॒र्कम॒र्किणः॑ ।
ब्रह्माण॑स्त्वा शतक्रत॒वुद्व॒ꣳ॒ शमि॑व येमिरे ।
अ ॒ꣳ॒हो॒मुचे॒ प्र भ॑रेमा मनी॒षा मो॑षिष्ठ॒दाव्ने॑ सुम॒तिं गृ॑णा॒नाः ।
इ॒दमि॑न्द्र॒ प्रति॑ ह॒व्यं गृ॑भाय स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः᳚ ।
वि॒वेष॒ यन्मा॑ धि॒षणा॑ ज॒जान॒ स्तवै॑ पु॒रा पार्या॒दिन्द्र॒मह्नः॑ ।
अꣳह॑सो॒ यत्र॑ पी॒पर॒द्यथा॑ नो ना॒वेव॒ यान्त॑मु॒भये॑ हवन्ते ।
प्र स॒म्राजं॑ प्रथ॒मम॑ध्व॒रणा॑म॒ꣳ॒हो॒ मुचं॑ वृष॒भं य॒ज्ञिया॑नाम् ।
अ॒पान्नपा॑तमश्विना॒ हय॑न्तम॒स्मिन्न॑र इन्द्रि॒यं ध॑त्त॒मोजः॑ ।
वि न॑ इन्द्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः ।
अ॒ध॒स्प॒दन्तमीं᳚ कृधि॒ यो अ॒स्माꣳ अ॑भि॒दास॑ति ।
इन्द्र॑ क्ष॒त्रम॒भि वा॒ममोजोऽजा॑यथा वृषाभ चर्षणी॒नाम् ।
अपा॑नुदो॒ जन॑ममित्र॒ यन्त॑मु॒रुं दे॒वेभ्यो॑ अकृणोरु लो॒कम् ।
मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वतः॑ आ ज॑गामा॒ पर॑स्याः ।
सृ॒कꣳ स॒ꣳ॒शाय॑ प॒विमि॑न्द्र ति॒ग्मं विशत्रू᳚न् ताढि॒ विमधो॑ नुदस्व ।
वि शत्रू॒न्॒ वि मृधो॑ नुद॒ वि वृ॒त्रस्य॒ हनू॑ रुज ।
विम॒न्युमि॑न्द्र भामि॒तो॑ऽमित्र॑स्याभि॒दासतः॑ ।
त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्र॒ꣳ॒ हवे॑ हवे सु॒हव॒ꣳ॒ शूर॒मिन्द्रम्᳚ ।
हु॒वे नु श॒क्रं पु॑रुहू॒तमिन्द्रꣳ॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्रः॑ ।
मा ते॑ अ॒स्याꣳ स॑हसाव॒न् परि॑ष्टाव॒धाय॑ भूम हरिवः परा॒दै ।
त्राय॑स्व नोऽवृ॒केभि॒र्वरु॑थै॒स्तव॑ प्रि॒यास॑स्सू॒रिषु॑ स्याम ।
अन॑वस्ते॒ रथ॒मश्वा॑य तक्ष॒न् त्वष्टा॒ वज्रं॑ पुरुहूत द्यु॒मन्तम्᳚ ।
ब्र॒ह्माण॒ इन्द्रं॑ म॒हय॑न्तो अ॒र्कैरवर्धय॒न्नह॑ये॒ हन्त॒ वा उ॑ ।
वृष्णे॒ यत् ते॒ वृष॑णो अ॒र्कमर्चा॒निन्द्र॒ ग्रावा॑णो॒ अदि॑तिस्स॒जोषाः᳚ ।
अ॒न॒श्वासो॒ ये प॒वयो॑ऽर॒था इन्द्रे॑षिता अ॒भ्यव॑र्तन्त॒ दस्यून्॑ ।
यत॑ इन्द्र॒ भया॑महे॒ ततो॑ नो॒ अभ॑यं कृधि ।
मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तये॒ विद्विषो॒ विमृधो॑ जहि ।
स्व॒स्ति॒दा वि॒शस्पति॑र्वृत्र॒हा विमृधो॑ व॒शी ।
वृषेन्द्रः॑ पु॒र एतु॑ नः स्वस्ति॒दा अ॒भयंकरः ।
म॒हाꣳ इन्द्रो॒ वज्र॑बाहुः षोड॒शी शर्म॑ यच्छतु ।
स्व॒स्ति नो॑ म॒घवा॑ करोतु॒ हन्तु॑ पा॒प्मानं॒ यो᳚ऽस्मान् द्वेष्टि॑ ।
स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भि॒स्सोमं॑ पिब वृत्रहञ्छूर वि॒द्वान् ।
ज॒हि शत्रू॒ꣳ॒रप॒मृधो॑नुद॒स्वाथाभ॑यं कृणु हि वि॒श्वतो॑ नः ।
ये दे॒वाः पु॑र॒स्सदो॒ऽग्नि ने᳚त्रा रक्षो॒हण॒स्तेनः पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॒ नम॒स्तेभ्यः॒ सवाहा॒ ये दे॒वा द॑क्षिण॒सदो॑ य॒मने᳚त्रा रक्षो॒हण॒स्तेनः पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॒ नम॒स्तेभ्यः॒ सवाहा॒ ये दे॒वा प॑श्चा॒त् सद॑सवि॒तृ ने᳚त्रा रक्षो॒हण॒स्तेनः पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॒ नम॒स्तेभ्यः॒ सवाहा॒ ये दे॒वा उ॑त्तर॒सदो॒ वरु॑णनेत्रा र क्षो॒हण॒स्तेनः पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॒ नम॒स्तेभ्यः॒ सवाहा॒ ये दे॒वा उ॑परि॒षदो॒ बृह॒स्पति॑नेत्रा रक्षो॒हण॒स्तेनः पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॒ नम॒स्तेभ्यः॒ सवाहा॒ऽग्नये॑ रक्षो॒घ्ने स्वाहा॑ यमाय॑ रक्षो॒घ्ने स्वाहा॑ सवि॒त्रे रक्षो॒घ्ने स्वाहा॒ वरु॑णाय रक्षो॒घ्ने स्वाहा॒॑ बृह॒स्पत॑ये॒ दुव॑स्पते रक्षो॒घ्ने स्वाहा᳚ ।
अ॒ग्निरायु॑ष्मा॒न्त्स वन॒स्पति॑भि॒रायु॑ष्मा॒न्तेन॒ त्वाऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि॒ ।
सोम॒ आयु॑ष्मा॒न्त्स ओष॑धीभि॒रायु॑ष्मा॒न्तेन॒ त्वाऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि॒ ।
य॒ज्ञ आयु॑ष्मा॒न्त्स दक्षि॑णाभि॒रायु॑ष्मा॒न्तेन॒ त्वाऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि॒ ।
ब्रह्मायु॑ष्मत्तद् ब्रा᳚ह्म॒णैरायु॑ष्म॒त्तेन॒ त्वाऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि॒ ।
दे॒वा आयु॑ष्मंत॒स्ते॑ऽमृते॒नायु॑ष्मं॒तस्तेन॒ त्वाऽऽयु॒षाऽऽयु॑ष्मन्त ं करोमि॒ ।
या वा॑मिन्द्रा वरुणा यत॒व्या॑ त॒नूस्तये॒ममꣳ ह॑सो मुंचतं ।
या वा॑मिन्द्रा वरुणा सह॒स्या॑ त॒नूस्तये॒ममꣳ ह॑सो मुंचतं ।
या वा॑मिन्द्रा वरुणा रक्ष॒स्या॑ त॒नूस्तये॒ममꣳ ह॑सो मुंचतं ।
या वा॑मिन्द्रा वरुणा तेज॒स्या॑ त॒नूस्तये॒ममꣳ ह॑सो मुंचतं ।
यो वा॑मिन्द्रा वरुणाव॒ग्नौ स्राम॒स्तं वा॑मे॒तेनाव॑ यजे॒ यो वा॑मिन्द्रा वरुणा द्वि॒पात्सु॑ प॒शुषु॒ स्राम॒स्तं वा॑मे॒तेनाव॑ यजे॒ यो वा॑मिन्द्रा वरुणा॒ चतु॑ष्पत्सु प॒शुषु॒ स्राम॒स्तं वा॑मे॒तेनाव॑ यजे॒ यो वा॑मिन्द्रा वरुणा गो॒ष्ठे स्राम॒स्तं वा॑मे॒तेनाव॑ यजे॒ यो वा॑मिन्द्रा वरुणा गृ॒हेषु॒ स्राम॒स्तं वा॑मे॒तेनाव॑ यजे॒ यो वा॑मिन्द्रा वरुणा॒प्सु स्राम॒स्तं वा॑मे॒तेनाव॑ यजे॒ यो वा॑मिन्द्रा वरु॒णौष॑धीषु॒ स्राम॒स्तं वा॑मे॒तेनाव॑ यजे॒ यो वा॑मिन्द्रा वरुणा॒ वन॒स्पति॑षु॒ स्राम॒स्तं वा॑मे॒तेन ाव॑ यजे ॥
अग्ने॑यशस्वि॒न्यश॑से॒ मम॑र्प॒येन्द्रा॑वती॒मप॑चितीमि॒हाव॑ह ।
अ॒यं मू॒र्धा प॑रमे॒ष्ठी सु॒वर्चा᳚स्समा॒नाना॑मुत्त॒मश्लो॑को अस्तु ॥
भ॒द्रं पश्य॑न्त॒ उप॑सेदु॒रग्रे॒ तपो॑ दी॒क्षामृष॑यः सुव॒र्विदः॑ ।
ततः॑ क्ष॒त्रं बल॒मोज॑श्च जा॒तं तद॑स्मै दे॒वा अ॒भि सन्न॑मन्तु ॥
धा॒ता वि॑धा॒त प॑र॒मोतसं॒धृक् प्र॒जाप॑तिः परमे॒ष्ठी वि॒राजा᳚ ।
स्तोमा॒श्छंदा॑ꣳसि नि॒विदो॑म आहुरे॒तस्मै॑ रा॒ष्ट्रम॒भिसन्न॑माम ॥
अ॒भ्याव॑र्तध्व॒मुप॒मेत॑सा॒क म॒यꣳ शा॒स्ताऽधि॑पतिर्वो अस्तु ।
अ॒स्य वि॒ज्ञान॒मनु॒सꣳर॑भध्वमि॒मं प॒श्चादनु॑ जीवाथ॒ सर्वे᳚ ॥
॥
राष्ट्रभृतं ॥
ऋ॒ता॒षाडृ॒तधा॑मा॒ग्निर्ग॑न्ध॒र्वस्स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु तस्मै॒ स्वाहा॒ ।
तस्यौष॑धयोऽप्स॒रस॒ ऊर्जो॒ नाम॒ ता इ॒दं ब्रह्म॑क्ष॒त्रं पा᳚न्तु ताभ्यः॒ स्वाहा॑ ।
सꣳहि॒तो वि॒श ्वसा॑मा॒ सूर्यो॑ ग॑न्ध॒र्वः स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु तस्मै॒ स्वाहा॒ ।
तस्य॒ मरी॑चयोऽप्स॒रस॒ आ॒युवो॒ नाम॒ ता इ॒दं ब्रह्म॑क्ष॒त्रं पा᳚न्तु ताभ्यः॒ स्वाहा॑ ।
सुषु॒म्नः सूर्य॑रश्मिश्च॒न्द्रमा॑ ग॑न्ध॒र्वः स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु तस्मै॒ स्वाहा॒ ।
तस्य॒ नक्ष॑त्राण्यऽप्स॒रसो॑ बे॒कुर॑यो॒ नाम॒ ता इ॒दं ब्रह्म॑क्ष॒त्रं पा᳚न्तु ताभ्यः॒ स्वाहा॑ ।
भु॒ज्युस्सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वः स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु तस्मै॒ स्वाहा॒ ।
तस्य॒ दक्षि॑णा अप्स॒रस॑स्त॒वा नाम॒ ता इ॒दं ब्रह्म॑क्ष॒त्रं पा᳚न्तु ताभ्यः॒ स्वाहा॑ ।
प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्वः स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु तस्मै॒ स्वाहा॒ ।
तस्य॑र्क्सा॒मान्यप्स॒रसो॒ वह्ण॑यो॒ नाम॒ ता इ॒दं ब्रह्म॑क्ष॒त्रं पा᳚न्तु ताभ्यः॒ स्वाहा॑ ।
इषिरो वि॒श्वव्य॑चा॒ वातो॑ ग॑न्ध॒ र्वः स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु तस्मै॒ स्वाहा॒ ।
तस्यापो᳚ऽप्स॒रसो॑ मु॒दा नाम॒ ता इ॒दं ब्रह्म॑क्ष॒त्रं पा᳚न्तु ताभ्यः॒ स्वाहा॑ ।
भुव॑नस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ ।
सनो॑रा॒स्वाज्या॑निꣳ रा॒यस्पोषाꣳ॑ सु॒वीर्यꣳ॑ संवत्स॒रीणाꣳ॑ स्व॒स्तिꣳ स्वाहा॑ ।
प॒र॒मे॒ष्ठयधि॑पतिर्मृ॒त्युर्ग॑न्ध॒र्वः स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु तस्मै॒ स्वाहा॒ ।
तस्य॒ विश्व॑मप्स॒रसो॒ भुवो॑ नाम॒ ता इ॒दं ब्रह्म॑क्ष॒त्रं पा᳚न्तु ताभ्यः॒ स्वाहा॑ ।
सुक्षि॒तिस्सुभू॑तिर्भद्र॒कृत्सुव॑र्वान्प॒र्जन्यो॑ ग॑न्ध॒र्वः स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु तस्मै॒ स्वाहा॒ ।
तस्य॒ वि॒द्युतो᳚ऽप्स॒रसो॒ रुचो॒ नाम॒ ता इ॒दं ब्रह्म॑क्ष॒त्रं पा᳚न्तु ताभ्यः॒ स्वाहा॑ ।
दू॒रे हे॑तिरमृड॒यो मृ॒त्युर्ग॑न्ध॒र्वः स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु तस्मै॒ स्वाहा॒ ।
तस्य॒ प्र॒जा अ॑प्स॒ रसो॒ भी॒रुवो॒ नाम॒ ता इ॒दं ब्रह्म॑क्ष॒त्रं पा᳚न्तु ताभ्यः॒ स्वाहा॑ ।
चारुः॑ कृपणका॒शी कामो॑ ग॑न्ध॒र्वः स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु तस्मै॒ स्वाहा॒ ।
तस्या॒धयो᳚ऽप्स॒रस॑श्शो॒चय॑तीर्नाम॒ ता इ॒दं ब्रह्म॑क्ष॒त्रं पा᳚न्तु ताभ्यः॒ स्वाहा॑ ।
सनो॑ भुवनस्य पते॒ यस्य॑ त उपरि॑ गृ॒हा इ॒ह च॑ ।
उ॒रुब्रह्म॑णे॒स्मै क्ष॒त्राय॒ महि॒ शर्म॑ यच्छ॒ स्वाहा᳚ ॥
नमो॑ अस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वीमनु॑ ।
ये अ॒न्तरि॑क्षे॒ ये दि॒वि तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥
ये॑ऽदो रो॑चने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑ ।
येषा॑म॒प्सु सदः॑ कृ॒मं तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥
या इष॑वो यातु॒धाना॑नां॒ ये वा॒ वन॒स्पती॒ꣳ॒रनु॑ ।
ये वा॑ऽव॒टेषु॒ शेर॑ते॒ तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥
॥
पंचचोडाः ॥
अ॒यंपु॒रो हरि॑केशः॒ सूर्य॑रश्मि॒स्तस्य॑ रथगृ॒त्सश्च॒ रथौ॑जाश्च सेनानिग ्राम॒ण्यौ॑ पुञ्जिकस्थ॒ला च कृतस्थ॒ला चा᳚प्सरस॒रसौ॑ यातु॒धाना॑ हे॒ति रक्षꣳ॑सि॒ प्रहे॑ति॒स्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जंभे॑ दधामि ।
अ॒यं द॑क्षि॒णा वि॒श्वक॑र्मा॒ तस्य॑ रथस्व॒नश्च॒ रथे॑ चित्रश्च सेनानिग्राम॒ण्यौ॑ मेन॒का च॑ सहज॒न्या चा᳚प्सरस॒रसौ᳚ द॒ङ्क्ष्णवः॑ प॒शवो॑ हे॒ति पौरु॑षेयोव॒धः प्रहे॑ति॒स्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जंभे॑ दधामि ।
अ॒यं प॒श्चाद्वि॒श्वव्य॑चा॒स्तस्य॒ रथ॑प्रोत॒श्चास॑मरथश्च सेनानिग्राम॒ण्यौ᳚ प्र॒म्लोच॑न्ती चानु॒म्लोच॑न्ती चाप्सरस॒रसौ᳚ स॒र्पा हे॒तिर्व्या॒घ्राः प्रहे॑ति॒स्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जंभे॑ दधामि ।
अ॒यमु॑त्त॒रात्सं॒यद्व॑सु॒स्तस्य॑ सेन॒जिच्च॑ सु॒षेण॑श्च सेनानिग ्राम॒ण्यौ॑ वि॒श्वाची॑ च घृ॒ताची॑ चा᳚प्स॒रसा॒वापो॑ हे॒तिर्वातः॒ प्रहे॑ति॒स्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जंभे॑ दधामि ।
अ॒यमु॒पर्य॒र्वाग्व॑सु॒स्तस्य॒ तार्क्ष्य॒श्चारि॑ष्टनेमिश्च सेनानिग्राम॒ण्या॑वु॒र्वशी॑ पू॒र्वचि॑त्तिश्चाप्सरस॒रसौ॑ वि॒द्युद्धे॒तिर॑व॒स्फूर्ज॒न्प्रहे॑ति॒स्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो रश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जंभे दधामि ।
॥
अप्रतिरथं ॥
आ॒शुः शिशा॑नो वृष॒भो न यु॒ध्मो घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम् ।
सं॒क्रन्द॑नोऽनिमि॒ष ए॑कवी॒रः श॒तꣳ सेना॑ अजयत्सा॒कामिन्द्रः॑ ॥
सं॒क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्य॒वनेन॑ धृ॒ष्णुना᳚ ।
तदिन्द्रे॑ण जयत॒ तत् स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा᳚ ॥
स इषु॑हस्तैः॒ स नि॑ष॒ङ्गिभि॑र्व॒शी सꣳस्र ॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑ ।
स॒ꣳ॒सृ॒ष्ट॒जित् सो॑म॒पा बा॑हुश॒र्ध्यू᳚र्ध्वधन्वा॒ प्रति॑हिताभि॒रस्ता᳚ ॥
बृह॑स्पते॒ परि॑ दीया॒रथे॑न रक्षो॒हाऽमित्राꣳ॑ अप॒बाध॑मानः ।
प्र॒भ॒ञ्जन्त्सेनाः᳚ प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑मेध्यवि॒ता रथा॑नाम् ॥
गो॒त्र॒भिदं॑ गो॒विदं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा ।
इ॒मꣳ स॑जाता॒ अनु॑ वीरयध्व॒मिन्द्रꣳ॑ सखा॒योऽनु॒ सꣳ र॑भध्वम् ॥
ब॒ल॒वि॒ज्ञा॒यः स्थवि॑रः॒ प्रवी॑रः॒ सह॑स्वान् वा॒जी सह॑मान उ॒ग्रः ।
अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जैत्र॑मिन्द्र॒ रथ॒मा ति॑ष्ठ गो॒वित् ॥
अ॒भिगो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽदा॒यो वी॒रश्श॒तम॑न्यु॒रिन्द्रः॑ ।
दु॒श्च्य॒व॒नः पृ॑तना॒षाड॑यु॒द्ध्यो᳚ऽस्माक॒ꣳ॒ सेना॑ अवतु॒ प्र यु॒त्सु ॥
इन्द्र॑ आसां ने॒ता बृह॒स्पति॒र्दक्षिन्॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑ ।
दे॒व॒से॒ नाना॑मभिभञ्जती॒नां जय॑न्तीनां म॒रुतो॑ य॒न्त्वग्रे᳚ ॥
इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां᳚ म॒रुता॒ꣳ॒ शर्ध॑ उ॒ग्रम् ।
म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ॥
अ॒स्काक॒मिन्द्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या इष॑व॒स्ता ज॑यन्तु ।
अ॒स्माकं॑ वी॒रा उत्त॑रे भवन्त्व॒स्मानु॑ देवा अवता॒ हवे॑षु ॥
उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युत् सत्व॑नां माम॒कानां॒ महा॑ꣳसि ।
उद् वृ॑त्रहन् वा॒जिनां॒ वाजि॑ना॒न्युद्रथा॑नां॒ जय॑तामेतु॒ घोषः॑ ॥
उप॒ प्रेत॒ जय॑ता नरः स्थि॒रा व॑स्सन्तु बा॒हवः॑ ।
इन्द्रो॑ व॒श्शर्म॑ यच्छत्वनाधृ॒ष्या यथाऽस॑थ ॥
अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑सꣳशिता ।
गछा॒मित्रा॒न् प्रवि॑श॒ मैषां कं च॒नोच्छि॑षः ॥
मर्मा॑णि ते॒ वर्म॑भिश्छादयामि॒ सोम॑स्त्वा॒ राजा॒ऽमृते॑ना॒भिऽव॑स्ताम् ।
उ॒रोर ्वरी॑यो॒ वरि॑वस्ते अस्तु॒ जय॑न्तं त्वामनु॑ मदन्तु दे॒वाः ॥
यत्र॑ बा॒णाः स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व ।
इन्द्रो॑ न॒स्तत्र॑ वृत्र॒हा वि॑श्वा॒हा शर्म॑ यच्छतु ॥
शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मेऽनुका॒मश्च॑ मे॒ काम॑श्च मे सौमन॒सश्च॑ मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒ द्रवि॑णं च मे य॒न्ता च मे ध॒र्ता च मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्वं॑ च मे॒ मह॑श्च मे सं॒विच्च॑ मे॒ ज्ञात्रं॑ च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीरं॑ च मे ल॒यश्च॑ म ऋ॒तं च॑ मे॒ऽमृतं॑ च मेऽय॒क्ष्मं च॒ मेऽना॑मयच्च मे जी॒वातुश्च मे दीर्घायु॒त्वं च॑ मेऽनमि॒त्रं च॒ मेऽभ॑यं च मे सु॒गं च॑ मे॒ शय॑नं च मे सू॒षा च॑ मे सु॒दिनं॑ च मे ॥
॥
विहव्यं ॥
ममा᳚ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यं त्वेन्धा॑नास्त॒नुवं॑ पुषेम ।
मह्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्र॒स्त्वयाऽध्य ॑क्षेण॒ पृत॑ना जयेम ॥
मम॑ दे॒वा वि॑ह॒वे स॑न्तु॒ सर्व॒ इन्द्रा॑वन्तो म॒रुतो॒ विष्णु॑र॒ग्निः ।
ममा॒न्तरि॑क्षमु॒रु गो॒पम॑स्तु॒ मह्यं॒ वातः॑ पवतां॒ कामे॑ अ॒स्मिन् ॥
मयि॑ दे॒वा द्रवि॑ण॒मा य॑जन्तां मय्या॒शीर॑स्तु॒ मयि॑ दे॒वहू॑तिः ।
दैव्या॒ होता॑रा वनिषन्त पूर्वेऽरि॑ष्टास्स्याम त॒नुवा॑ सु॒वीराः᳚ ॥
मह्यं॑ यजन्तु॒ मम॒ यानि॑ ह॒व्याऽऽकू॑तिः स॒त्या मन॑सो मे अस्तु ।
एनो॒ मा नि गां᳚ कत॒मच्च॒नाहं विश्वे॑ देवासो॒ अधि॑ वोचता मे ॥
देवी᳚र्ष्षडुर्र्वीरु॒रुणः॑ कृणोत॒ विश्वे॑ देवास इ॒ह वी॑रयध्वम् ।
मा हा᳚स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सो॑म रजन् ॥
अ॒ग्निर्म॒न्युं प्र॑तिनु॒दन् पु॒रस्ता॒दद॑ब्धो गो॒पाः परि॑पाहि न॒स्त्वम् ।
प्र॒त्यञ्चो॑ यन्तु नि॒गुतः॒ पुन॒स्ते॑ऽमैषां᳚ चि॒त्तं प्र॒बुधा॒ विने॑शत् ॥
धा॒ता धा॑तृ॒णां भुव॑नस्य ॒ यस्पति॑र्दे॒वꣳ स॑वितार॑मभिमाति॒षाहम्᳚ ।
इ॒मं य॒ज्`नम॒श्विनो॒भा बृह॒स्पति॑र्दे॒वाः पा᳚न्तु॒ यज॑मानन्नय॒र्थात् ॥
उ॒रु॒व्यचा॑ नो महि॒षश्शर्म॑ यꣳसद॒स्मिन् हव॑द पुरुहू॒तः पु॑रु॒क्षु ।
स नः॑ प्र॒जायै॑ हर्यश्व मृड॒येन्द्र॒ मा नो॑ रीरिषो॒ मा परा॑ दाः ॥
येन॑स्स॒पत्ना॒ अप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधामहे॒ तान् ।
वस॑वो रु॒द्रा आ॑दि॒त्या उ॑परि॒स्पृशं॑ मो॒ग्रं चेत्ता॑रमधिरा॒जम॑क्रन् ॥
अ॒र्वाञ्च॒मिन्द्र॑म॒मुतो॑ हवामहे॒ यो गो॒जिद्ध॑न॒जिद॑श्व॒जिद्यः ।
इ॒मं नो॑ य॒ज्ञं वि॑ह॒वे जु॑षस्वा॒स्य कु॑र्मो हरिवो मे॒दिनं॑ त्वा ॥
॥
मृगारं ॥
अ॒ग्नेर्म॑न्वे प्रथ॒मस्य॒ प्रचे॑तसो॒ यं पाञ्च॑जन्यं ब॒हव॑स्समि॒न्धते᳚ ।
विश्व॑स्यां वि॒शि प्र॑विविशि॒वाꣳ स॑मीमहे॒ स नो मुञ्च॒त्वꣳह॑सः ॥
यस्ये॒दं प्रा॒णन्नि॑मि॒षद्यदेज॑ति॒ यस्य॑ जा॒ तं जन॑मानं च॒ केव॑लम् ।
स्तौम्य॒ग्निं ना॑थि॒तो जो॑हवीमि॒ सनो॑ मुञ्च॒त्वꣳह॑सः ॥
इन्द्र॑स्य मन्ये प्रथ॒मस्य॒ प्रचे॑तसो वृत्र॒घ्नः स्तोमा॒ उप॒ मामु॒पागुः॑ ।
यो दा॒शुषः॑ सु॒कृतो॒ हव॒मुप॒ गन्ता॒ स नो॑ मुञ्च॒त्वꣳह॑सः ॥
यः सं॑ग्रा॒मं नय॑ति॒ संव॒शी यु॒धे यः पु॒ष्टानि॑ सꣳसृ॒जति॑ त्र॒याणि॑ ।
स्तौमीन्द्रं॑ नाथि॒तो जो॑हवीमि॒ स नो॑ मुञ्च॒त्वꣳह॑सः ॥
म॒न्वे वां᳚ मित्रावरुणा॒ तस्य॑ वित्त॒ꣳ॒ सत्यौ॑जसा दृꣳहणा॒ यन्नु॒देथे᳚ ।
या राजा॑नꣳ स॒रथं॑ या॒थ उ॑ग्रा॒ ता नो॑ मुञ्चत॒माग॑सः ॥
यो वा॒ꣳ॒ रथ॑ ऋजुर॑श्मिः स॒त्यध॑र्मा॒ मिथु॒श्चर॑न्तमुप॒याति॑ दू॒ष्यन्॑ ।
स्तौमि॑ मि॒त्रावरुणा॒ नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुंचत॒माग॑सः ।
वा॒योस्स॑वि॒तुर्वि॒दथा॑नि मन्महे यावा᳚त्म॒न्वद्बि॑भृ॒तो यौ च॒ रक्ष॑तः ।
यौ विश्व॑स्य परि॒भू ब॑भूवतुस्तौ नो॑ मुञ्चत॒माग॑स ः ॥
उप॒श्रेष्टा॑ न आ॒शिषो॑ दे॒वयो॒र्धर्मे॑ अस्थिरन् ।
स्तौमि॑ वा॒युꣳ स॑वि॒तारं॑ नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुंचत॒माग॑सः ॥
र॒थीत॑मौ रथी॒नाम॑ह्व ऊ॒तये॒ शुभं॒ गमि॑ष्ठौ सु॒यमे॑भि॒रश्वैः᳚ ।
ययो᳚र्वां॒ देवौ दे॒वेष्वनि॑शित॒मोज॒स्तौ नो॑ मुञ्चत॒माग॑सः ॥
यदया॑तं वह॒तुꣳ सू॒र्याया᳚स्त्रिच॒क्रेण॑ स॒ꣳ॒ सद॑मि॒च्छमा॑नौ ।
स्तौमि॑ दे॒वाव॒श्विनौ॑ नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः ॥
म॒रुतां᳚ मन्वे॒ अधि॑ नो ब्रुवन्तु॒ प्रेमां वाचं॒ विश्वा॑मवन्तु॒ विश्वे᳚ ।
आ॒शून्हु॑वे सु॒यमा॑नू॒तये॒ ते नो॑ मुञ्च॒त्वेन॑सः ॥
ति॒ग्ममायु॑धं वीडि॒तꣳ सह॑स्वद्दि॒व्यꣳ शर्दः॒ पृत॑नासु जि॒ष्णु ।
स्तौमि॑ दे॒वान्म॒रुतो॑ नाथि॒तो जोह॑वीमि॒ ते नो॑ मुञ्च॒त्वेन॑सः ॥
दे॒वानां᳚ मन्वे॒ अधि॑ नो ब्रुवन्तु॒ प्रेमां वाचं विश्वा॑मवन्तु विश्वे᳚ ।
आ॒शून् हु॑वे सु॒ यमा॑नू॒तये॒ ते नो॑ मुञ्च॒त्वेन॑सः ॥
यदि॒दं मा॑ऽभि॒शोच॑ति॒ पौरु॑षेयेण॒ दैव्ये॑न ।
स्तौमि॒ विश्वा᳚न्दे॒वान्न॑थि॒तो जोह॑वीमि॒ ते नो॑ मुञ्च॒त्वेन॑सः ॥
अनु॑नो॒ऽद्यानु॑मतिर्य॒ज्ञं दे॒वेषु॑ म् अन्यताम् ।
अ॒ग्निश्च॑ हव्य॒वाह॑नो॒ भव॑तांदा॒शुषे॒ मयः॑ ॥
अन्विद॑नुमते॒ त्वं मन्या॑सै॒ शं च॑ नः कृधि ।
क्रत्वे॒ दक्षा᳚य नो हि नु॒ प्रण॒ आयूꣳ॑षि तारिषः ॥
वै॒श्वा॒न॒रो न॑ ऊ॒त्याऽऽप्र या॑तु परा॒वतः॑ ।
अ॒ग्निरु॒क्थेन॒ वाह॑सा ॥
पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्यां पृ॒ष्टो विश्वा॒ ओष॑दी॒रावि॑वेश ।
वै॒श्वा॒न॒रसह॑सा पृ॒ष्टो अ॒ग्निस्सनो॒ दिवा॒ सारि॒षः पा॑तु॒ नक्तम्᳚ ॥
ये अप्र॑थेता॒ममि॑तेभि॒रोजो॑भि॒र्ये प्र॑ति॒ष्ठे अभ॑वतां॒ वसू॑नाम् ।
स्तौमि॒ द्यावा॑पृथि॒वी ना॑थि॒तो जोह॑वीमि॒ ते नो॑ मुञ्चत॒मꣳह॑सः ॥
उर्वी॑ रोदसी॒ वरि॑वः कृणोत ं॒ क्षेत्र॑स्य पत्नी॒ अधि॑ नो ब्रूयतम् ।
स्तौमि॒ द्यावा॑पृथि॒वी ना॑थि॒तो जोह॑वीमि॒ ते नो॑ मुञ्चत॒मꣳह॑सः ॥
यत् ते॑ व॒यं पु॑रुष॒त्रा य॑विष्ठाय॑वि॒ष्ठा वि॑द्वाꣳसश्चकृ॒मा कच्च॒नाऽऽगः॑ ।
कृ॒धी स्व॑स्माꣳ अदि॑ते॒रना॑गा॒ व्येनाꣳ॑सि शिश्रथो॒ विष्व॑गग्ने ॥
यथा॑ह॒ तद्व॑सवो गौ॒र्यं॑ चित् प॒दिषि॒ताममु॑ञ्चता यजत्राः ।
ए॒वा त्वम॒स्मत् प्र मु॑ञ्चा॒व्यꣳहः॒ प्राता᳚र्यग्ने प्रत॒रान्न॒ आयुः॑ ॥
॥
सर्पाहुतीः ॥
स॒मीची॒ नामा॑सि॒ प्राची॒दिक्तस्या᳚स्ते॒ऽग्निरधि॑पतिरसि॒तो र॑क्षि॒ता यश्चादि॑पति॒र्यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वां॒ जंभे॑ दधामि ।
ओ॒ज॒स्विनी॒ नामा॑सि दक्षि॒णा दिक्तस्या᳚स्त॒ इन्द्रोऽधि॑पतिः पृदा॑कू र॑क्षि॒ता यश्चादि॑पति॒र्यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वां॒ जंभे॑ दधामि ।
प्राची॒ नामा॑सि प्र॒तीची॒ दिक्तस्या᳚स्ते॒ सोमोऽधि॑पतिः स्व॒जो र॑क्षि॒ता यश्चादि॑पति॒र्यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वां॒ जंभे॑ दधामि ।
अ॒व॒स्थावा॒ नामा॒स्युदी॑ची॒ दिक्तस्या᳚स्ते॒ वरु॑णोऽधि॑पतिस्त॒रश्च॑ राजी र॑क्षि॒ता यश्चादि॑पति॒र्यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वां॒ जंभे॑ दधामि ।
अधि॑पत्नी॒ नामा॑सि बृह॒ती दिक्तस्या᳚स्ते॒ बृह॒स्पति॒रधि॑पतिः श्वि॒त्रो र॑क्षि॒ता यश्चादि॑पति॒र्यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वां॒ जंभे॑ दधामि ।
व॒शिनी॒ नामा॑सी॒यं दिक्तस्या᳚स्ते॒ य॒मोऽधि॑पतिः क॒ल्माष॑ग्रीवो र॑क्षि॒ता यश्चादि॑पति॒र्यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वां॒ जंभे॑ दधामि ॥
॥
गन्धर्वाहुतीः ॥
हे॒तयो॒ नाम॑स्थ॒ तेषां᳚ वः पु॒रो गृ॒हा अ॒ग्निर्व॒ इष॑वः सलि॒लो वा॑तना॒मं तेभ्यो॑ वो॒ नम॒स्तेनो॑ मृडयत॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जंभे॑ दधमि ।
नि॒लि॒म्पा नाम॑स्थ॒ तेषां᳚ वो दक्षि॒णा गृ॒हा पि॒तरो॑ व॒इष॑वः॒ सग॑रो वातना॒मं तेभ्यो॑ वो॒ नम॒स्तेनो॑ मृडयत॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जंभे॑ दधमि ।
व॒ज्रिणो॒ नाम॑स्थ॒ तेषां᳚ वः प॒श्चाद्गृ॒हा स्वप्नो॑व॒ इष॑वो॒ गह्व॑रो वातना॒मं तेभ्यो॑ वो॒ नम॒स्तेनो॑ मृडयत॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जंभे॑ दधमि ।
अ॒वस्थावा॑नो॒ नाम॑स्थ॒ तेषां᳚ व उत्त॒रद्गृ॒हा आपो॑व॒ इषवः॒ समु॒द्रो वा॑तना॒मं तेभ्यो॑ वो॒ नम॒स्तेनो॑ मृडयत॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जंभे॑ दधमि ।
अधि॑पतयो॒ नाम॑स्थ॒ तेषां᳚ व उ॒परि॑ गृ॒हा व॒र्षं व॒ इष॒वोऽव॑स्वान् वातना॒मं तेभ्यो॑ वो॒ नम॒स्तेनो॑ मृडयत॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जंभे॑ दधमि ।
क्र॒व्या नाम॑स्थ॒ तेषां᳚ व इ॒ह गृ॒हा अन्नं॑ व॒ इष॑वोऽनिमि॒षो वा॑तना॒मं तेभ्यो॑ वो॒ नम॒स्तेनो॑ मृडयत॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जंभे॑ दधमि ।
॥
अज्यानि ॥
श॒तायु॑धाय श॒तवी᳚र्याय श॒तोत॑येऽभिमाति॒षाहे᳚ ।
श॒तं यो नः॑ श॒रदो॒ अजी॑ता॒निन्द्रो॑ नेष॒दति॑ दुरि॒तानि॒ विश्वा᳚ ॥
ये च॒त्वारः॑ प॒थयो॑ देव॒याना॑ अंत॒रा द्यावा॑पृथि॒वी वि॒यन्ति॑ ।
तेषां॒ यो अज्या॑नि॒ मजी॑ति मा॒हवा॒त्तस्मै॑ नो दे॒वाः परि॑दत्ते॑ह सर्वे᳚ ॥
ग्री॒ष्मो हे॑म॒न्त उ॒तनो॑ वस॒न्तः श॒रद्व॒र्षाः सु॑वि॒तन्नो॑ अस्तु ।
तेषा॑मृतू॒नाꣳ श॒तशा॑रदानां निवा॒त ए॑षा॒मभ॑ये स्याम ॥
इ॒दु॒व॒त्स॒राय॑ परिवत्स॒राय॑ संवत्स॒राय॑ कृणुता बृ॒हन्नमः॑ ।
तेषां᳚ व॒यꣳ सु॑म॒तौ य॒ज्ञिया॑नां ज्योगजी॑ता॒ अह॑ताः स्याम ॥
भ॒द्रान्नः॒ श्रेयः॒ सम॑नैष्ट देवा॒स्त्वया॑ऽव॒सेन॒ सम॑शीमहि त्वा ।
स नो॑ मयो॒भूः पि॑तो॒ आवि॑शस्व॒ शन्तो॒काय॑ त॒नुवे᳚ स्यो॒ नः ॥
भू॒तं भव्यं॑ भवि॒ष्यद्वष॒ट्स्वाहा॒ नम॒ ऋक्साम॒यजु॒र्वष॒ट्स्वाहा॒ नमो॑ गाय॒त्रीत्रि॒ष्टुप्जग॑ती॒वष॒ट्स्वाहा॒ नमः॑ पृथि॒व्य॑न्तरि॑क्षम् द्यौर्वष॒ट्स्वाहा॒ नमो॒ऽग्निर्वा॒युः सूर्यो॒ वष॒ट्स्वाहा॒ नमः॑ प्रा॒णो व्या॒नो॑ऽपा॒नो वष॒ट्स्वाहा॒ नमोऽन्नं॑ कृ॒षिर्वृष्टि॒र्वष॒ट्स्वाहा॒ नमः॑ पि॒ता पु॒त्रः पौत्रो॒ वष॒ट्स्वाहा॒ नमो॒ भूर्भुवः॒ सुव॒र्वष॒ट्स्वाहा॒ नमः॑ ।
॥
अथर्वशिरसं ॥
इन्द्रो॑दधी॒ची अ॒स्थभि॑ ।
वृ॒त्राण्यप्र॑तिष्कुतः ।
ज॒घान॑ नव॒तीर्नव॑ ।
इ॒च्छन्नश्व॑स्य॒ यच्छिरः॑ ।
पर्व॑ते॒ष्वप॑श्रितम् ।
तद्वि॑दच्छिर्य॒णाव॑ति ।
अत्राह॒ गोरम॑न्वत ।
नाम॒ त्वष्टु॑रपी॒च्यम्᳚ ।
इ॒त्थ च॒न्द्रम॑सो गृ॒हे ।
इन्द्र॒मिद्गा॒थिनो॑ बृ॒हत् ।
इन्द्र॑म॒र्केभिर॒र्किणः॑ ।
इन्द्रं॒ वानी॑रनूषत ।
इन्द्र॒ इद्धर्योः॒ सचा᳚ ।
संमि॑श्ल॒ आव॑चो युजा᳚ ।
इन्द्रो॑ व॒ज्रीहि॑र॒ण्ययः॑ ।
इन्द्रो॑ दी॒र्घाय॒ चक्ष॑से ।
आसूर्यꣳ॑ रोहयद्दि॒वि ।
विगोभि॒रद्रि॑मैरयत् ।
इन्द्र॒ वाजे॑षु नो अव ।
स॒हस्र॑प्रधनेषु च ।
उ॒ग्र उ॒ग्राभि॑रू॒तिभिः॑ ।
तमिन्द्रं॑ वाजयामसि ।
म॒हे वृ॒त्राय॒ हन्त॑वे ।
सा वृषा॑ वृष॒भोऽभु॑वत् ।
इन्द्रः॒ स दाम॑ने कृ॒तः ।
ओजि॑ष्ठः॒ सबले॑हि॒तः ।
द्युम्नी श्लो॒की ससौ॒म्यः॑ ।
गि॒रा वज्रो॒ न संभृ॑तः ।
सब॑लो॒ अन॑पच्युतः ।
व॒व॒क्षुरु॒ग्रो अस्तृ॑तः ।
॥
प्रत्यंगिरसं ॥
चक्षु॑षो हेते॒ मन॑सो हेते ।
वाचो॑हेते॒ ब्रह्म॑णो हेते ।
योमा॑ऽघा॒युर॑भिदास॑ति ।
तम॑ग्ने मे॒न्याऽमे॒निं कृ॑णु ।
यो मा॒ चक्षु॑षा॒ यो मन॑स ।
यो वा॒चा ब्रह्म॑णाघा॒युर॑भि॒दास॑ति ।
तया᳚ऽग्ने॒ त्वं मे॒न्या ।
अ॒मुम॑मे॒निं कृ॑णु ।
यत्किञ्चा॒सौ मन॑सा॒ यच्च॑ वा॒चा ।
य॒ज्ञैर्जु॒होति॒ यजु॑ष ह॒विर्भिः॑ ।
तन्मृ॒त्युर्निरृ॑त्या संविदा॒नः ।
पु॒रादि॒ष्टादाहु॑तीरस्य हन्तु ।
या॒तु॒धाना॒ निरृ॑ति॒रादु॒ रक्षः॑ ।
ते अ॑स्यघ्न॒न्त्वनृ॑तेन स॒त्यम् ।
इन्द्रे॑षिता॒ आज्य॑मस्य मथ्नन्तु ।
मा तत्समृ॑द्धि॒ यद॒सौ क॒रोति॑ ।
हन्मि॑ ते॒ऽहं कृ॒तꣳह॒विः ।
यो मे॑ घो॒रमची॑कृतः ।
अपां᳚चौ त उ॒भौ बा॒हू ।
अप॑नह्याम्या॒स्यम्᳚ ।
अ॒ग्नेर्दे॒वस्य॒ ब्रह्म॑णा ।
सर्वं॑ तेऽवधिषंकृ॒तम् ।
पु॒राऽमुष्य॑ वषट्का॒रात् ।
य॒ज्ञं दे॒वेषु॑ नस्कृधि ।
स्वि॑ष्ट म॒स्माकं॑ भ्यूयात् ।
माऽस्मान् प्राप॒न्नरा॑तयः ।
अन्ति॑दू॒रे स॒तो अ॒ग्ने ।
भ्रातृ॑व्यस्याभि॒दास॑तः ।
व॒ष॒ट्का॒रेण॒ वज्रे॑ण ।
कृ॒त्याꣳह॑न्मि कृ॒ताम॒हम् ।
यो मा॒ नक्तं॒ दिवा॑ सा॒यम् ।
प्रा॒तश्चाह्नो॑ नि॒पीय॑ति ।
अ॒द्यातमि॑न्द्र॒ वज्रे॑ण ।
भ्रातृ॑व्यं पादयामसि ।
प्रा॒णो र॑क्षति॒ विश्व॒मेज॑त् ।
इर्यो॑ भू॒त्वा बहु॒दा ब॒हूनि॑ ।
स इत्सर्वं॒ व्या॑नशे ।
यो दे॒वो दे॒वेषु॑ वि॒भूर॒न्तः ।
आवृ॑दू॒दात् क्षेत्रिय॑ध्व॒गद्वृषा᳚ ।
तमित्प्रा॒णं मन॒सोप॑शिक्षत ।
अग्रं॑ दे॒वाना॑मि॒दम॑त्तु नो ह॒विः ।
मन॑स॒श्चित्ते॒दम् ।
भू॒तं भव्यं॑ च गुप्यते ।
तद्धिदे॒वेष्व॑ग्रि॒यम् ।
आ न॑ एतुपुरश्च॒रम् ।
स॒ह दे॒वैरि॒मꣳ हवम्᳚ ।
मनः॒ श्रेय॑सि श्रेयसि ।
कर्म॑न्य॒ज्ञप॑तिं॒ दध॑त् ।
जु॒षतां᳚ मे॒ वागि॒दꣳ ह॒विः ।
वि॒राड् द े॒वी पु॒रोहि॑ता ।
ह॒व्य॒वाडन॑पायिनी ।
यया॑ रू॒पाणि॑ बहु॒दा वद॑न्ति ।
पेशाꣳ॑सि दे॒वाः प॑र॒मे ज॒नित्रे᳚ ।
सा नो॑ वि॒राडन॑पस्फुरन्ति ।
वाग्दे॒वी जु॑षतामि॒दꣳ ह॒विः ।
चक्षु॑र्दे॒वानां॒ ज्योति॑र॒मृते॒ न्य॑क्तम् ।
अ॒स्य वि॒ज्ञाना॑य बहु॒धा निधी॑यते ।
तस्य॑ सु॒म्नम॑शीमहि ।
मा नो॑ हसीद्विचक्ष॒णम् ।
आयु॒रिन्नः॒ प्रती᳚र्यताम् ।
अन॑न्धा॒श्चक्षु॑षाव॒यम् ।
जी॒वा ज्योति॑रशीमहि ।
सुव॒र्ज्योति॑रु॒तामृतम्᳚ ।
श्रोत्रे॑ण भ॒द्रमु॒त शृ॑ण्वन्ति स॒त्यम् ।
श्रोत्रे॑ण॒ वाचं॑ बहु॒धोद्यमा॑नाम् ।
श्रोत्रे॑ण॒ मोद॑श्च॒ मह॑श्च श्रूयते ।
श्रोत्रे॑ण॒ सर्वा॒ दिश॒ आशृ॑णोमि ।
येन॒ प्राच्या॑ उ॒त द॑क्षि॒णा ।
प्र॒तीच्यै॑दि॒शः शृ॒ण्वन्त्यु॑त्त॒रात् ।
तदिच्छ्रोत्रं॑ बहु॒धोद्यमा॑नम् ।
अ॒रान्नने॒मिः परि॒सर्वं॑ बभूव ।
सि॒ꣳ ॒हे व्या॒घ्र उ॒त या पृदा॑कौ ।
त्विषि॑र॒ग्नौ ब्रा᳚ह्म॒णे सूर्ये॒या ।
इन्द्रं या दे॒वी सु॒भगा॑ ज॒जान॑ ।
सा न आग॒न्वर्च॑सा संविदा॒ना ।
या रा॑ज॒न्ये॑ दुन्दु॒भावाय॑तायाम् ।
अश्व॑स्य॒ क्रन्द्ये॒पुरु॑षस्य मा॒यौ ।
इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान॑ ।
सा न आग॒न्वर्च॑सा संविदा॒ना ।
या ह॒स्तिनि द्वी॒पिनि॒ या हिर॑ण्ये ।
त्विषि॒रश्वे॑षु॒ पुरु॑षेषु॒ गोषु॑ ।
इन्द्रं या दे॒वी सु॒भगा॑ ज॒जान॑ ।
सा न॒ आग॒न्वर्च॑सा संविदा॒ना ।
रथे॑अ॒क्षेषु॑ वृष॒भस्य॒ वजे᳚ ।
वते॑ प॒र्जन्ये॒ वरु॑णस्य॒ शुष्मे᳚ ।
इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान॑ ।
सा न आग॒न्वर्च॑सा संविदा॒ना ।
राड॑सि वि॒राड॑सि ।
स॒म्राड॑सि स्व॒राड॑सि ।
इन्द्रा॑य त्वा॒ तेज॑स्वते॒ तेज॑स्वन्तꣳ श्रीणामि ।
इन्द्रा॑य॒ त्वौज॑स्वत॒ ओज॑स्वन्तꣳ श्रीणामि ।
इन्द्रा॑य त्वा॒ पय॑स्वत े॒ पय॑स्वन्तꣳ श्रीणामि ।
इन्द्रा॑य त्वाऽऽयु॑ष्मत॒ आयु॑ष्मन्तꣳ श्रीणामि ।
तेजो॑ऽसि ।
तत्ते॒ प्रय॑च्छामि ।
तेज॑स्वदस्तु मे॒ मुखम्᳚ ।
तेज॑स्व॒च्छिरो॑ अस्तु मे ।
तेज॑स्वान् वि॒श्वतः॑ प्र॒त्यङ् ।
तेज॑सा॒ सम्पि॑पृग्धि मा ।
ओजो॑ऽसि ।
तत्ते॒ प्रय॑च्छामि ।
ओज॑स्वदस्तु मे॒ मुखम्᳚ ।
ओज॑स्व॒च्छिरो॑ अस्तु मे ।
ओज॑स्वान् वि॒श्वतः॑ प्र॒त्यङ् ।
ओज॑सा॒ सम्पि॑पृग्धि मा ।
पयो॑ऽसि ।
तत्ते॒ प्रय॑च्छामि ।
पय॑स्वदस्तु मे॒ मुखम्᳚ ।
पय॑स्व॒च्छिरो॑ अस्तु मे ।
पय॑स्वान् वि॒श्वतः॑ प्र॒त्यङ् ।
पय॑सा॒ सम्पि॑पृग्धि मा ।
आयु॑रसि ।
तत्ते॒ प्रय॑च्छामि ।
आयु॑ष्मदस्तु मे॒ मुखम्᳚ ।
आयु॑ष्म॒च्छिरो॑ अस्तु मे ।
आयु॑ष्मान् वि॒श्वतः॑ प्र॒त्यङ् ।
आयु॑षा॒ सम्पि॑पृग्धि मा ।
इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि ।
प्रि॒यꣳरेतो॑ व रुण सोम राजन् ।
मा॒तेवा᳚स्मा अदिते॒ शर्म॑ यच्छ ।
विश्वे॑देवा॒ जर॑दष्टि॒र्यथाऽस॑त् ।
आयु॑रसि वि॒श्वायु॑रसि ।
स॒र्वायु॑रसि॒ सर्व॒मायु॑रसि ।
यतो॒ वातो॒ मनो॑जवाः ।
यतः॒ क्षर॑न्ति॒ सिन्ध॑वः ।
तासा᳚न्त्वा॒ सर्वा॑साꣳ रु॒चा ।
अ॒भिषिं॑चामि॒ वर्च॑सा ।
स॒मु॒द्र इ॑वासि ग॒ह्मना᳚ ।
सोम॑ इवा॒स्यदा᳚भ्यः ।
अ॒ग्निरि॑व वि॒श्वतः॑ प्र॒त्यङ् ।
सूर्य॑ इव॒ ज्योति॑षा वि॒भूः ।
अ॒पां यो द्रव॑णे॒ रसः॑ ।
तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ ।
तेज॑से ब्रह्मवर्च॒साय॑ गृह्णामि ।
अ॒पां यो ऊ॒र्मौ रसः॑ ।
तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ ।
ओज॑से वी॒र्या॑य गृह्णामि ।
अ॒पां यो म॑ध्य॒तो रसः॑ ।
तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ ।
आयु॑षे दीर्घायु॒त्वाय॑ गृह्णामि ।
अ॒हम॑स्मि प्रथम॒जा ऋ॒तस्य॑ ।
पूर्वं॑ दे॒वेभ्यो॑ अ॒मृत॑स्य॒ नाभिः॑ ।
यो मा॒ ददा॑ति॒ स इदे॒व मा वाः᳚ ।
अ॒हमन्न॒मन्न॑म॒दन्त॑मद्मि ।
पूर्व॑म॒ग्नेरपि॑ दह॒त्यन्नं᳚ ।
य॒त्तो हा॑सते अहमुत्त॒रेषु॑ ।
व्यात्त॑मस्य प॒शव॑स्सु॒जम्भम्᳚ ।
पश्य॑न्ति॒ धीरा॒ प्रच॑रन्ति॒ पाकाः᳚ ।
जहा᳚म्य॒न्यन्नज॑हाम्य॒न्यम् ।
अ॒हमन्नं॒ वश॒मिच्च॑रामि ।
स॒मा॒नमर्थं॒ पर्ये॑मि भुं॒जत् ।
को मामन्नं॑ मनु॒ष्यो॑ दयेत ।
परा॑के॒ अन्नं॒ निहि॑तं लो॒क ए॒तत् ।
विश्वै᳚र्दे॒वैः पि॒तृभि॑र्गु॒प्तमन्नम्᳚ ।
यद॒द्यते॑ लु॒प्यते॒ यत्प॑रो॒प्यते᳚ ।
श॒त॒त॒मी सा त॒नूर्मे॑ बभूव ।
म॒हान्तौ॑ च॒रू स॑कृद्दु॒ग्धेन॑ पप्रौ ।
दिवं॑च पृश्ञि पृथि॒वीं च॑ सा॒कम् ।
तत्सं॒पिब॑न्तो॒ न मि॑नन्ति वे॒धसः॑ ।
नैतद्भू॒यो भव॑ति॒ नो कनी॑यः ।
अन्नं॑ प्रा॒णमन्न॑मपा॒नमा॑हुः ।
अन्नं॑ मृ॒त्युं तमु॑ जी॒वातु॑माहुः ।
अन्नं॑ ब्र॒ह्माणो॑ ज॒रसं॑ वदन्ति ।
अन्न॑माहुः प्र॒जन॑नं प्र॒जाना᳚म् ।
मोघ॒मन्नं॑ विन्दते॒ अप्र॑चेताः ।
स॒त्यं ब्र॑वीमि व॒ध इत्स तस्य॑ ।
नार्य॒मणं॒ पुष्य॑ति॒ नो सखा॑यम् ।
केव॑लाघो भवति केव॒लादि ।
अ॒हं मे॒घस्त॒नय॒न्वर्ष॑न्नस्मि ।
माम॑दन्त्य॒हम॑द्य॒न्यान् ।
अ॒हꣳसद॒मृतो॑ भवामि ।
मदा॑दि॒त्या अधि॒ सर्वे॑ तपन्ति ।
दे॒वीं वाच॑मजनयन्त दे॒वाः ।
तां वि॒श्वरू॑पाः प॒शवो॑ वदन्ति ।
सा नो॑ म॒न्द्रेष॒मूर्जं॒ दुहा॑ना ।
धे॒नुर्वाग॒स्मानुप॒सुष्टु॒तैतु॑ ।
यद्वाग्वद॑न्त्यविचेत॒नानि॑ ।
राष्त्री॑ दे॒वाना᳚न्निष॒साद॑म॒न्द्रा ।
चत॑स्र॒ ऊर्जं॑दुदुहे॒ पयाꣳ॑सि।क्व॑स्विदस्याः पर॒मं ज॑गाम ।
अ॒न॒न्तामन्ता॒दधि॒ निर्मि॑तां म॒हीम् ।
यस्यां᳚ दे॒वा अ॒दधु॒र्भोज॑नानि ।
एका᳚क्षरमां द्वि॒पदा॒ꣳ॒षत्प॑दाञ्च ।
वाचं॑ दे॒वा उप॑जीवन्ति॒ विश्वे᳚ ।
वाचं॑ दे॒वा उप॑जीवन्ति॒ विश्वे᳚ ।
वाचं॑ गन्ध॒र्वाः प॒शवो॑ मनु॒ष्याः᳚ ।
वाचीमाविश्वा॒ भुव॑ना॒न्यर्पि॑ता ।
सा नो॒ हवं जुषता॒मिन्द्र॑पत्नी ।
वाग॒क्षरं॑ प्रथम॒जा ऋ॒तस्य॑ ।
वेदा॑नां मा॒ताऽमृत॑स्य॒ नाभिः॑ ।
सानो॑ जुषा॒णोप॑ य॒ज्ञमागा᳚त् ।
अव॑न्ती दे॒वी सु॒हवा॑मे अस्तु ।
यामृष॑यो मन्त्र॒कृतो॑ मनी॒षिणः॑ ।
अ॒न्वैच्छ॑न्दे॒वास्तप॑सा॒ श्रमे॑ण ।
तां दे॒वीं वाचꣳ॑ह॒विषा॑ यजामहे ।
सा नो॑ दधातु सुकृ॒तस्य॑ लो॒के ।
च॒त्वारि॒ वाक्परि॑मिता प॒दानि॑ ।
तानि॑ विदुर्ब्राह्म॒णा ये म॑नी॒षिणः॑ ।
गुहा॒ त्रीणि॒ निहि॑ता॒ नेगं॑यन्ति ।
तु॒रीयं॑ वा॒चो म॑नु॒ष्या॑ वदन्ति ।
श्र॒द्धया॒ग्निः समि॑ध्यते ।
श्र॒द्धया॑ विन्दते ह॒विः ।
श्र॒द्धां भग॑स्य मू॒र्धनि॑।वच॒या वे॑दयामसि ।
प्रि॒यꣳश्र॑द्धे॒ दद॑तः ।
प्रि॒यꣳश्र॑द्धे॒ दिदा॑सतः ।
प्रि॒यं भो॒जेषु॒ यज्व॑सु ।
इ॒दं म॑ उदि॒तं कृ॑धि ।
यथा॑ दे॒वा असु॑रेषु ।
श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे ।
ए॒वं भो॒जेषु॒ यज्व॑सु ।
अ॒स्माक॑मुदि॒तं कृ॑धि ।
श्र॒द्धं दे॑वा॒ यज॑मानाः ।
वा॒युगो॑पा॒ उपा॑सते ।
श्र॒द्धाꣳ हृ॑द॒य्य॑याऽऽकू᳚त्या ।
श्र॒द्धया॑ हूयते ह॒विः ।
श्र॒द्धां प्रा॒तर्हवा॑महे ।
श्र॒द्धां म॒ध्यंदि॑नं॒ परि॑ ।
श्र॒द्धाꣳ सूर्य॑स्य नि॒म्रुचि॑ ।
श्र्द्धे॒ श्रद्धा॑पये॒ह मा᳚ ।
श्र॒द्धा दे॒वानधि॑वस्ते ।
श्र॒द्ध विश्व॑मि॒दं जग॑त् ।
श्र॒द्धां काम॑स्य मा॒तरम्᳚ ।
ह॒विष॑ वर्धयामसि ।
ब्रह्म॑जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता᳚त् ।
विसीम॒तस्सु॒रुचो॑ वे॒न आ॑वः ।
स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः ।
स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑ ।
पि॒ता वि॒राजा॑मृष॒भो र॑यी॒णाम् ।
अन्तरि॑क्षं वि॒श्वरूप॒ आवि॑वेश ।
तम॒र्कैर॒भ्य॑र्चन्ति व॒त्सम् ।