श्री बाला मन्त्राक्षर स्तोत्रम्
ऐंकारैकसमस्तशत्रुरचनामावेद्य मूर्तिप्रदां
ऐश्वर्यादिकमष्टभोगफलदां ऐश्वर्यदां पुष्पिणीम् ।
ऐन्द्रव्याकरणादिशास्त्रवरदां ऐरावताराधितां
ऐशानीं भुवनत्रयस्य जननीं ऐङ्कारिणीमाश्रये ॥ २ ॥
क्लींकारैकसमस्तवश्यकरिणीं क्लीं पञ्चबाणात्मिकां
क्लीं विद्रावणकारिणीं वरशिवां क्लिन्नां शिवालिङ्गिताम् ।
क्लीबोऽपि प्रणमन्भवानि भवतीं ध्यात्वा हृदम्भोरुहे
क्लिन्नाशेषवशीकरो भवति यत्क्लीङ्कारिणीं नौम्यहम् ॥ ३ ॥
सौः शब्दप्रथितामरादि विनुतां सूक्तिप्रकाशप्रदां
सौभाग्याम्बुधिमन्थनामृतरसां सौन्दर्यसम्पत्करीम् ।
सान्निध्यं दधतीं सदा प्रणमतां साम्राज्यलक्ष्मीप्रदां
सौः काराङ्कितपादपङ्कजयुगां सौषुम्नगां नौम्यहम् ॥ ४ ॥
इति श्री बाला स्तोत्रम् ।
sri bala mantrakshara stotram