श्री सुब्रह्मण्य सहस्रनामावली
ओं अचिन्त्यशक्तये नमः ।
ओं अनघाय नमः ।
ओं अक्षोभ्याय नमः ।
ओं अपराजिताय नमः ।
ओं अनाथवत्सलाय नमः ।
ओं अमोघाय नमः ।
ओं अशोकाय नमः ।
ओं अजराय नमः ।
ओं अभयाय नमः ।
ओं अत्युदाराय नमः ।
ओं अघहराय नमः ।
ओं अग्रगण्याय नमः ।
ओं अद्रिजासुताय नमः ।
ओं अनन्तमहिम्ने नमः ।
ओं अपाराय नमः ।
ओं अनन्तसौख्यप्रदाय नमः ।
ओं अव्ययाय नमः ।
ओं अनन्तमोक्षदाय नमः ।
ओं अनादये नमः ।
ओं अप्रमेयाय नमः । २०
ओं अक्षराय नमः ।
ओं अच्युताय नमः ।
ओं अकल्मषाय नमः ।
ओं अभिरामाय नमः ।
ओं अग्रधुर्याय नमः ।
ओं अमितविक्रमाय नमः ।
ओं अनाथनाथाय नमः ।
ओं अमलाय नमः ।
ओं अप्रमत्ताय नमः ।
ओं अमरप्रभवे नमः ।
ओं अरिन्दमाय नमः ।
ओं अखिलाधाराय नमः ।
ओं अणिमादिगुणाय नमः ।
ओं अग्रण्ये नमः ।
ओं अचञ्चलाय नमः ।
ओं अमरस्तुत्याय नमः ।
ओं अकलङ्काय नमः ।
ओं अमिताशनाय नमः ।
ओं अग्निभुवे नमः ।
ओं अनवद्याङ्गाय नमः । ४०
ओं अद्भुताय नमः ।
ओं अभीष्टदायकाय नमः ।
ओं अतीन्द्रियाय नमः ।
ओं अप्रमेयात्मने नमः ।
ओं अदृश्याय नमः ।
ओं अव्यक्तलक्षणाय नमः ।
ओं आपद्विनाशकाय नमः ।
ओं आर्याय नमः ।
ओं आढ्याय नमः ।
ओं आगमसंस्तुताय नमः ।
ओं आर्तसंरक्षणाय नमः ।
ओं आद्याय नमः ।
ओं आनन्दाय नमः ।
ओं आर्यसेविताय नमः ।
ओं आश्रितेष्टार्थवरदाय नमः ।
ओं आनन्दिने नमः ।
ओं आर्तफलप्रदाय नमः ।
ओं आश्चर्यरूपाय नमः ।
ओं आनन्दाय नमः ।
ओं आपन्नार्तिविनाशनाय नमः । ६०
ओं इभवक्त्रानुजाय नमः ।
ओं इष्टाय नमः ।
ओं इभासुरहरात्मजाय नमः ।
ओं इतिहासश्रुतिस्तुत्याय नमः ।
ओं इन्द्रभोगफलप्रदाय नमः ।
ओं इष्टापूर्तफलप्राप्तये नमः ।
ओं इष्टेष्टवरदायकाय नमः ।
ओं इहामुत्रेष्टफलदाय नमः ।
ओं इष्टदाय नमः ।
ओं इन्द्रवन्दिता य नमः ।
ओं ईडनीयाय नमः ।
ओं ईशपुत्राय नमः ।
ओं ईप्सितार्थप्रदायकाय नमः ।
ओं ईतिभीतिहराय नमः ।
ओं ईड्याय नमः ।
ओं ईषणात्रयवर्जिताय नमः ।
ओं उदारकीर्तये नमः ।
ओं उद्योगिने नमः ।
ओं उत्कृष्टोरुपराक्रमाय नमः ।
ओं उत्कृष्टशक्तये नमः । ८०
ओं उत्साहाय नमः ।
ओं उदाराय नमः ।
ओं उत्सवप्रियाय नमः ।
ओं उज्जृम्भाय नमः ।
ओं उद्भवाय नमः ।
ओं उग्राय नमः ।
ओं उदग्राय नमः ।
ओं उग्रलोचनाय नमः ।
ओं उन्मत्ताय नमः ।
ओं उग्रशमनाय नमः ।
ओं उद्वेगघ्नोरगेश्वराय नमः ।
ओं उरुप्रभावाय नमः ।
ओं उदीर्णाय नमः ।
ओं उमापुत्राय नमः ।
ओं उदारधिये नमः ।
ओं ऊर्ध्वरेतःसुताय नमः ।
ओं ऊर्ध्वगतिदाय नमः ।
ओं ऊर्जपालकाय नमः ।
ओं ऊर्जिताय नमः ।
ओं ऊर्ध्वगाय नमः । १००
ओं ऊर्ध्वाय नमः ।
ओं ऊर्ध्वलोकैकनायकाय नमः ।
ओं ऊर्जावते नमः ।